SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसारः। ११९ समुद्रा विशतिश्चैव तेषां द्वाविंशतिस्तथा। सौधर्मादिषु देवानां भवत्यायुः प्रकर्षतः ॥ १३० ॥ एकैकं वर्द्धयेदब्धि नवप्रैवेयकेष्वतः। .. नवस्वनुदिशेषु स्याद्वात्रिंशदविशेषतः ॥ १३१ ॥ त्रयस्त्रिंशत्समुद्राणां विजयादिषु पञ्चसु। . साधिकं पल्यमायुः स्यात्सौधर्मेशानयोयोः ॥ १३२॥ परतः परतः पूर्व शेषेषु च जघन्यतः । आयुः सर्वार्थसिद्धौ तु जघन्यं नैव विद्यते ॥ १३३॥ अन्यत्रानपमृत्युभ्यः सर्वेषामपि देहिनाम् । अन्तर्मुहूर्त्तमित्येषां जघन्येनायुरिष्यते ॥ १३४ ॥ असङ्ख्येयसमायुष्काश्चरमोत्तममूर्चयः ।। देवाश्च नारकाश्चैषामपमृत्युन विद्यते ॥ १३५ ।। घम्मायां सप्त चापानि सपादं च करत्रयम्।... उत्सेधः स्यात्ततोऽन्यासु द्विगुणो द्विगुणो हि सः ॥१३॥ शतानि पञ्च चापानां पञ्चविंशतिरेव च । प्रकर्षेग मनुष्याणामुत्सेधः कर्मभूमिषु ॥ १३७ ।। एकः क्रोशो जघन्यासु द्वौ क्रोशौ मध्यमासु च । क्रोशत्रयं प्रकृष्टासु भोगभूषु समुन्नतिः ॥ १३८ ॥... ज्योतिष्काणां स्मृताः सप्तासुराणां पञ्चविंशतिः । शेषभावनभौमानां कोदण्डानि दशोन्नतिः ॥ १३९ ॥ द्वयोः सप्त द्वयोः षड् च हस्ताः पञ्च चतुर्थतः। ततश्चतुर्षु चत्वारः सार्धाश्चातो द्वयोस्त्रयः ॥ १४० ॥ द्वयोस्त्रयश्च कल्पेषु समुत्सेधः सुधाशिनाम् । अधोवेयकेषु स्यात्सार्द्ध हस्तद्वयं यथा ॥ १४१॥.
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy