SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११८ प्रथम गुच्छक। दिनान्येकोनपश्चाशत्यक्षाणां त्रीणि तेजसः। षण्मासाश्चतुरक्षाणां भवत्यायुः प्रकर्षतः ॥ ११९ ॥ मवायुः परिसर्पाणां पूर्वाङ्गानि प्रकर्षतः। ध्यक्षाणां द्वादशाब्दानि जीवितं स्यात्प्रकर्षतः ॥ १२० ।। असंशिनस्तथा मत्स्याः कर्मभूजाश्चतुष्पदाः । मनुष्याश्चैव जीवन्ति पूर्वकोटि प्रकर्षतः ॥ १२१ ॥ एकं द्वे त्रीणि पल्यानि नृतिरश्वां यथाक्रमम् । जघन्यमध्यमोत्कृष्टभोगभूमिषु जीवितम् । कुभोगभूमिजानां तु पल्यमेकं तु जीवितम् ॥ १२२ ॥ (षट्पदम् ) एकं त्रीणि तथा सप्त दश सप्तदशेति च । द्वाविंशतिस्त्रयस्त्रिंशद् धर्मादिषु यथाक्रमम् ॥ १२३ ।। स्यात्सागरोपमाण्यायु रकाणां प्रकर्षतः। दशवर्षसहस्राणि घम्मायां तु जघन्यतः ॥ १२४॥ वंशादिषु तु तान्येकं त्रीणि सप्त तथा दश । तथा सप्तदश घना विंशतिश्च यथोत्तरम् ॥ १२५ ॥ भावनानां भवत्यायुः प्रकृष्टं सागरोपमम् । दशवर्षसहस्रं तु जघन्यं परिभाषितम् ॥ १२६ ॥ पल्योपमं भवत्यायुः सातिरेकं प्रकर्षतः । दशवर्षसहस्रं तु व्यन्तराणां जघन्यतः ॥ १२७ ।। पल्योपमं भवत्यायुः सातिरेकं प्रकर्षतः । पल्योपमाष्टभागस्तु ज्योतिष्काणां जघन्यतः ॥ १२८ ॥ द्वयोर्द्वयोरुभौ सप्त दश चैव चतुर्दश । षोडशाष्टादशाप्येते सातिरेकाः पयोधयः ॥ १२९ ।।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy