SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ तत्वार्थसारः । ११७ ( षट्पदम् ) गर्भजानां पुनर्मिश्रः शेषाणां त्रिविधो भवेत् ॥ १०७ ॥ उष्णः शीतश्च देवानां नारकाणां च कीर्तितः । उष्णोऽग्निकायिकानां तु शेषाणां त्रिविधो भवेत् ॥ १०८ ॥ नारकै काक्ष देवानां योनिर्भवति संवृतः । विवृतो विकलाक्षाणां मिश्रः स्याद्गर्भजन्मनाम् ॥ १०९ ॥ नित्येतरनिगोतानां भूम्यम्भोवाततेजसाम् । सप्त सप्त भवन्त्येषां लक्षाणि दश शाखिनाम् ॥ ११० ॥ पढ़ तथा विकलाक्षाणां मनुष्याणां चतुर्दश । तिर्यनारकदेवानामेकैकस्य चतुष्टयम् । एवं चतुरशीतिः स्यालक्षाणां जीवयोनथः ॥ १११ ॥ द्वाविंशतिस्तथा सप्त त्रीणि सप्त यथाक्रमम् । कोटीलक्षाणि भूम्यम्भस्तेजोऽनिलशरीरिणाम् ॥ ११२ ॥ वनस्पतिशरीराणां ताम्यशविंशतिः स्मृताः । स्युद्वित्रिचतुरक्षाणां सप्ताष्ट नव च क्रमात् ॥ ११३ ॥ तानि द्वादश सार्द्धानि भवन्ति जलचारिणाम् । नवाहिपरिसर्पाणां गवादीनां तथा दश ॥ ११४ ॥ वीनां द्वादश तानि स्युञ्चतुर्दश नृणामपि । षड्विंशतिः सुराणां तु श्वाभ्राणां पञ्जविंशतिः ॥ ११५ ॥ कुलानां कोटिलक्षाणि नवतिर्नवभिस्तथा । पञ्चायुतानि कोटीनां कोटिकोटी व मीलनात् ॥ ११६ ॥ द्वाविंशतिर्भुवां सप्त पयसां दश शाखिनाम् । नभस्वतां पुनस्त्रीणि वीनां द्वासप्ततिस्तथा ॥ ११७ ॥ उरगाणां द्विसंयुक्ता चत्वारिंशत्प्रकर्षतः । आयुर्वर्षसहस्राणि सर्वेषां परिभाषितम् ॥ ११८ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy