________________
प्रथम गुच्छक।
साशनो विग्रहगतौ मिथ्यावृष्टिस्तथावृतः॥९५ ॥ विग्रहो हि शरीरं स्यात्तदर्थ या गतिर्भवेत् । विशीर्णपूर्वदेहस्य सा विग्रहगतिः स्मृता ॥९६ ॥ जीवस्य विग्रहगतौ कर्मयोगं जिनेश्वराः। प्राहुदेहान्तरप्राप्तिः कर्मग्रहणकारणम् ॥ ९७ ॥ जीवानां पश्चताकाले यो भवान्तरसंक्रमः। मुक्तानां चोर्ध्वगमनमनुश्रेणिगतिस्तयोः ॥९८ । सविग्रहाऽविग्रहा च सा विग्रहगतिविधा। अविग्रहैव मुक्तस्य शेषस्यानियमः पुनः ॥ ९९ ॥ अविग्रहैकसमया कथितेषुगतिर्जिनैः । अन्या द्विसमया प्रोक्ता पाणिमुक्तकविग्रहा ॥ १० ॥ द्विविग्रहां त्रिसमयां प्राहुर्लाङ्गलिकां जिनाः । गोमूत्रिका तु समयैश्चतुभिः स्यात्रिविग्रहा ॥ १०१॥ समयं पाणिमुक्तायामन्यस्यां समयद्वयम् । तथा गोमूत्रिकायां त्रीननाहारक इष्यते ॥ १०२ ॥ त्रिविधं जन्म जीवनां सर्वज्ञैः परिभाषितम् । सम्मुर्छनात्तथा गर्भादुपपादात्तथैव च ॥ १०३॥ भवन्ति गर्मजन्मानः पोताण्डजजरायुजाः। तथोपपादजम्मानो नारकास्त्रिदिवौकसः ॥ १०४॥ स्युः सम्मूर्छनजन्मानः परिशिष्टास्तथाऽपरे । योनयो नव निर्दिष्टास्त्रिविधस्थापि जन्मनः ॥ १०५ ॥ सचित्तशीतविवृता अचित्ताशीतसंवृताः। सचित्ताचित्तशीतोष्णौ तथा विवृतसंवृतः॥ १०६॥ योनि रकदेवानामचित्तः कथितो जिनैः। . ...