________________
तत्त्वार्थसारः।
मिथ्यात्वपाककलुषमज्ञानं त्रिविध पुनः ॥ ८३॥. संयमः खलु चारित्रमोहस्योपशमादिभिः। प्राणस्य परिहारः स्यात् पञ्चधा स च वक्ष्यते ॥ ८४॥ विरताविरतत्वेन संयमासंयमः स्मृतः। प्राणिघाताक्षविषयभावेन स्यादसंयमः ॥ ८५॥.... दर्शनावरगस्य स्यात् क्षयोपशमसन्निधौ। आलोचनं पदार्थानां दर्शनं तश्चतुर्विधम् ॥ ८६ ॥ चक्षुर्दर्शनमेकं स्यादचक्षुर्दर्शनं तथा । अवधिदर्शनं चैव तथा केवलदर्शनम् ॥ ८७ ॥ योगवृत्तिर्भवेल्लेश्या कषायोदयरञ्जिता । . भावतो द्रव्यतः कायनामोदयकृताङ्गरुक् ॥ ८८॥ कृष्णा नीलाथ कापोता पीता पद्मा तथैव च । शुक्ला चेति भवत्येषा द्विविधापि हि षड्विधा ।। ८९ ॥ भव्याभन्यविभेदेन द्विविधा सन्ति जन्तवः। भव्याः सिद्धत्वयोग्याः स्युर्विपरीतास्तथापरे ॥ ९ ॥ सम्यक्त्वं खलु तत्त्वार्थश्रद्धानं तत्त्रिधा भवेत् । स्यात्सासादनसम्यक्त्वं पाकेऽनन्तानुबन्धिनाम् ॥९१ ॥ सम्यग्मिथ्यात्वपाकेन सम्यग्मिथ्यात्वमिष्यते। मिथ्यात्वमुदयेनोक्तं मिथ्यादर्शनकर्मणः ॥ ९२ ॥ यो हि शिक्षाक्रियात्मार्थवाही संज्ञी स उच्यते । अतस्तु विपरीतो यः सोऽसंज्ञी कथितो जिनैः ॥ ९३ ।। गृह्णाति देहपर्याप्तियोग्यान्यः खलु पुद्गलान् । आहारकः स विज्ञेयस्ततोऽनाहारकोऽन्यथा ॥ ९४ ॥ अस्त्यनाहारको योगः समुद्धातगतः परम् ।