SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक। मिश्राश्च कार्मणं चैव काययोगोऽपि सप्तधा ॥ ७१.॥ औदारिको वैक्रियकस्तथाहारक एव च। .. तैजसः कार्मणश्चैवं सूक्ष्माः सन्ति यथोत्तरम् ।। ७२ ।। असंख्येयगुणौ स्यावामाद्यादन्यौ प्रदेशतः । यथोत्तरं तथानन्तगुणौ तैजसकार्मणौ ॥ ७३ ॥ उभौ निरुपभोगौ तौ प्रतिघातविवर्जितौ । सर्वस्यानादिसम्बन्धौ स्यातां तैजसकार्मणौ ॥ ७४ ॥ तौ भवेतां क्वचिच्छुद्धौ क्वचिदौदारिकाधिकौ। क्वचिद्वैक्रियकोपेतौ तृतीयाद्ययुतौ क्वचित् ।। ७५ ॥ औदारिकशरीरस्य लब्धिप्रत्ययमिष्यते। अन्याद्वक् तैजसं साधोपुर्वैक्रियकं तथा ।। ७६ ॥ औदारिकं शरीरं स्याद्गर्भसम्मूर्छनोद्भवम् । तथा वैक्रियकाख्यं तु जानीयादौपपादिकम् ॥ ७ ॥ अव्याघाती शुभः शुद्धः प्राप्तर्यः प्रजायते। संयतस्य प्रमत्तस्य स खल्वाहारकः स्मृतः ॥ ७८ ॥ भाववेदस्त्रिभेदः स्यान्नोकषायविपाकजः।। नामोदयनिमित्तस्तु द्रव्यवेदः स च त्रिधा ।। ७ ॥ द्रव्यानपुंसकानि स्युः श्वाभ्राः सम्मूर्छिनस्तथा । पल्यायुषो न देवाश्च त्रिवेदा इतरे पुनः ।। ८० ।। उत्पादः खलु देवीनामैशानं यावदिष्यते। गमनं त्वच्युतं यावत् पुवेदा हि ततः परम् ॥ ८१ ॥ चरित्रपरिणामानां कषायः कषणान्मतः।। क्रोधोमानस्तथा माया लोभश्चेति चतुर्विधः॥ ८२ ।। तत्त्वार्थस्यावबोधो हि ज्ञानं पञ्चविधं भवेत् ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy