________________
तत्त्वार्थसारः।
आहारस्य भयस्थापि संज्ञा स्यान्मैथुनस्य च । परिग्रहस्य चेत्येवं भवेत्संज्ञा चतुर्विधा ॥३६॥ गत्यक्षकाययोगेषु वेदक्रोधादिवित्तिषु ! वृत्तदर्शनलेश्यासु भव्यसम्यक्त्वसंशिष । आहारके च जीवानां मार्गणाः स्युश्चतुर्दशः ॥ ३७॥
(षट्पदकम् ) गतिर्भवति जीवानां गतिकर्मविपाकजा। श्वभ्रतिर्यग्नरामर्त्यगतिभेदाच्चतुर्विधा ॥ ३८ ॥ इन्द्रियं लिङ्गमिन्द्रस्य तच्च पञ्चविधं भवेत् । प्रत्येकं तद्विधाव्यभावेन्द्रियविकल्पतः ॥ ३९ ॥ निर्वृत्तिश्चोपकरणं द्रव्येन्द्रियमुदाहृतम् । बाह्याभ्यन्तरभेदेन द्वैविध्यमनयोरपि ॥ ४०॥ नेत्रादीन्द्रियसंस्थानावस्थितानां हि वर्तनम् । विशुद्धात्मप्रदेशानां तत्र निवृत्तिरान्तरा ॥४१॥ तेष्वेवात्मप्रदेशेषु करणव्यपदेशिषु । नामकमकृतावस्थः पुद्गलपचयोऽपरा ॥ ४२॥ आभ्यन्तरं भवेत्कृष्णशुक्लमण्डलकादिकम् । बाह्योपकरणं त्वक्षिपक्ष्मपत्रद्वयादिकम् ।। ४३ ।। लब्धिस्तथोपयोगश्च भावेन्द्रियमुदाहृतम् । सा लब्धिर्वोधिरोधस्य यः क्षयोपशमो भवेत् ॥४४॥ स द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते यतः। कर्मणो ज्ञानरोधस्य क्षयोपशमहेतुकः ॥ ४५ ॥ आत्मनः परिणामो यः उपयोगः स कथ्यते। शानदर्शनभेदेन द्विधा द्वादशधा पुनः ॥ ४६॥ स्पर्शनं रसनं नाणं चक्षुः श्रोत्रमतः परम् । ...