SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक। संयतो ह्यप्रमत्तः स्यात्पूर्ववत्प्राप्तसंयमः । प्रमादविरहावृत्तवृत्तिमस्खलितां दधत् ॥ २४ ॥ अपूर्वकरणं कुर्वन्नपूर्वकरणो यतिः । शमकः क्षपकश्चैव स भवत्युपचारतः॥ २५ ॥ कर्मणां स्थूलभावे न शमकः क्षपकस्तथा। अनिवृत्तिरनिर्वृत्तिः परिणामवशाद्भवेत् ॥ २६ ॥ सूक्ष्मत्वेन कषायाणां शमनात्क्षपणात्तथा। स्यात्सूक्ष्मसांपरायो हि सूक्ष्मलोभोदयानुगः ॥२७॥ उपशान्तकषायः स्यात्सर्वमोहोपशान्तितः। भवेत्क्षीणकषायोऽपि मोहस्यात्यन्तसंक्षयात् ॥२८॥ उत्पन्न केवलज्ञानो घातिकर्मोदयक्षयात् । सयोगश्चाप्ययोगश्च स्यातां केवलिनावुभौ ॥ २९ ॥ एकाक्षा वादराः सूक्ष्मा द्यक्षाद्या विकलास्त्रयः। संशिनोऽसंशिनश्चैव द्विधा पञ्चेन्द्रियास्तथा ॥३०॥ पर्याप्ताः सर्व एवैते सर्वेऽपर्याप्तकास्तथा । जीवस्थानविकल्पाः स्युरिति सर्वे चतुर्दश ॥ ३१ ॥ आहारदेहकरणप्राणापानविभेदतः। वचोमनोविभेदाच सन्ति पर्याप्तयो हि षट् ॥ ३२ ॥ एकाक्षेषु चतस्रः स्युः पूर्वाः शेषेषु पञ्च ताः । सर्वा अपि भवन्त्येताः संज्ञिपञ्चेन्द्रियेषु तत् ॥ ३३ ॥ पञ्चेन्द्रियाणि वाक्कायमानसानां बलानि च । प्राणापानौ तथायुश्च प्राणाः स्युःप्राणिनां दश ॥ ३४ ॥ कायाक्षायूंषि सर्वेषु पर्याप्तेष्वान इष्यते। . वारद्यक्षादिषु पूर्णेषु मनः पर्याप्तसंशिषु ॥ ३५ ॥..
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy