SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ तत्वार्थसारः। यद्विशेषमकृत्वैवं गृहीते वस्तुमात्रकम् । निराकारं ततः प्रोक्तं दर्शनं विश्वदर्शिभिः ॥ १२॥ ज्ञानमष्टविधं ज्ञेयं मतिज्ञानादिभेदतः। चक्षुरादिविकल्पाच्च दर्शनं स्याञ्चतुर्विधम् ॥ १३ ॥ संसारिणश्च मुक्ताश्च जीवास्तु द्विविधा स्मृताः। लक्षणं तत्र मुक्तानामुत्तरत्र प्रचक्ष्यते ॥१४॥ सांप्रतं तु प्ररूप्यन्ते जीवाः संसारवर्तिनः । जीवस्थानगुणस्थानमार्गणादिषु तत्त्वतः ॥ १५ ॥ मिथ्याक्सासनो मिश्रो संयतो देशसंयतः। प्रमत्त इतरोऽपूर्वानिवृत्तिकरणौ तथा ॥ १६ ॥ सूक्ष्मोपशान्तसंक्षीणकषाया योग्ययोगिनौ। गुणस्थानविकल्पाः स्युरिति सर्वे चतुर्दश ॥ १७ ॥ मिथ्यावृष्टिर्भवेजीवो मिथ्यादर्शनकर्मणः। उदयेन पदार्थानामश्रद्धानं हि यत्कृतम् ॥ १८ ॥ मिथ्यात्वस्योदयाभावे जीवोऽनन्तानुवन्धिनाम् । उदयेनास्तसम्यक्त्वः स्मृतः सासादनाभिधः॥ १९ ॥ सम्यग्मिथ्यात्वसंज्ञायाः प्रकृतेरुदयाद्भवेत्। । मिश्रभावतया सम्यग्मिथ्यावृष्टिः शरीरवान् ॥ २० ॥ वृत्तमोहस्य पाकेन जनिताविरतिर्भवेत् ।। जीवः सम्यक्त्वसंयुक्तः सम्यग्दृष्टिरसंयतः ॥ २१ ॥ पाकक्षयात्कषायाणासप्रत्याख्यानरोधिनाम् । विरताविरतो जीवः संयतासंयतः स्मृतः ॥ २२॥ प्रमत्तसंयतो हि स्यात्प्रत्याख्याननिरोधिनाम् । उदयक्षयतः प्राप्तः संयमद्धि प्रमादवान् ॥ २३॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy