SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०८ . प्रथम गुच्छक। अनन्तानन्तजीवानामेकैकस्य प्ररूपकान् । प्रणिपत्य जिनान्मूर्ना जीवतत्त्वं प्ररूप्यते ॥१॥ अन्यासाधारणा भावाः पञ्चौपशमिकादयः । स्व तत्वं यस्य तत्त्वस्य जीवः स व्यपदिश्यते ॥२॥ स्यादौपशमिको भावः क्षायोपशमिकस्तथा । क्षायिकश्चाप्यौदयिकस्तथान्यः पारिणामिकः ॥३॥ भेदौ सम्यक्त्वचारित्रे द्वाचौपशमिकस्य हि । अज्ञानत्रितयं ज्ञानचतुष्कं पञ्चलब्धयः ॥ ४॥ .. देशसंयमसम्यक्त्वे चारित्रं दर्शनत्रयम्। क्षायोपशमिकस्यैते भेदा अष्टादशोदिताः॥५॥ सम्यक्त्वज्ञानचारित्रवीर्यदानानि दर्शनम् । . भोगोपभोगौ लाभश्च क्षायिकस्य नवोदिताः॥६॥ चतस्रो गतयो लेश्याः षट् कषायचतुष्टयम् । वेदा मिथ्यात्वमज्ञानमसिद्धोसयंतस्तथा । इत्यादौदयिकभावस्य स्युर्भेदा एकविंशतिः ॥७॥ (षट्पदं ) जीवत्वं चापिभव्यत्वमभव्यत्वं तथव च। पारिणामिकभावस्य भेदत्रितयमिष्यते ॥८॥ अनन्यभूतस्तस्य स्यादुपयोगो हि लक्षणम् । जीवोऽभिव्यज्यते तस्मादवष्टब्धोऽपि कर्मभिः ॥९॥ साकारश्च निराकारो भवति द्विविधश्च सः । साकारं हि भवेज्ज्ञानं निराकारं तु दर्शनम् ॥ १०॥ कृत्वा विशेषं गृह्णाति वस्तुजातं यतस्ततः। साकारमिष्यते ज्ञानं ज्ञानयाथात्म्यवेदिभिः॥११॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy