SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसारः । अर्थसंकल्पमात्रस्य ग्राहको नैगमो नयः । प्रस्थोदनादिजस्तस्य विषयः परिकीर्तितः ॥ ४४ ॥ भेदेन क्यमुपानीय स्वजातेरविरोधतः । समस्तग्रहणं यस्मात्स नयः संग्रहो मतः ॥ ४५ ॥ संग्रहेण गृहीतानामर्थानां विधिपूर्वकः । व्यवहारो भवेद्यस्माद्वयवहारनयस्तु सः ॥ ४६ ॥ ऋजुसूत्रः स विज्ञेयो येन पर्यायमात्रकम् । वर्त्तमानक समयविषयं परिगृह्यते ॥ ४७ ॥ लिङ्गसाधनसंख्यानां कालोपगृहयोस्तथा । व्यभिचारनिवृत्तिः स्याद्यतः शब्दनयो हि सः ॥ ४८ ॥ ज्ञेयः समभिरूढोऽसौ शब्दो यद्विषयः स हि । एकस्मिन्नमरूढार्थे नानार्थान्समतीत्ययः ॥ ४२ ॥ शब्दो येनात्मनाभूतस्तेनैवाध्यवसाययेत् । यो नयो मुनयो मान्यास्तमेवं भूतमभ्यधुः ॥ ५० ॥ एते परस्परापेक्षाः सम्यग्ज्ञानस्य हेतवः । निरपेक्षा पुनः संतो मिथ्याज्ञानस्य हेतवः ॥ ५१ ॥ आर्या छन्दः । निर्देशः स्वामित्वं साधनमधिकरणमपि च परिचिन्त्यम् । स्थितिरथविधानमिति पतत्वानामधिगमोपायाः ॥ ५२ ॥ अथ सत्संख्याक्षेत्रस्पर्शनकालान्तराणि भावश्च । अल्पबहुत्वं चाष्टावित्यपरेऽप्यधिगमोपायाः ॥ ५३ ॥ शालिनी छन्दः । सम्यग्योगो मोक्षमार्ग प्रपित्सुर्न्यस्तां नामस्थापनाद्रव्यभावैः । स्याद्वादस्थां प्राप्य तैस्तैरुपायैः प्राग्जानीयात्सप्तत्व क्रमेण ॥५४॥ • इति सप्ततन्त्रीपीठिका बन्धः ॥ १ ॥ .. १०७
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy