________________
प्रथम गुच्छक।
स मन:पर्ययस्येष्टोऽनन्तांशेऽवधिगोचरात् । केवलस्याखिलद्रव्यपीयेषुस सूचितः ॥ ३३ ॥ जीवे युगपदेकस्मिन्नेकादीनि विभावयेत् । ज्ञानानि चतुरन्तानि न तु पञ्च कदाचन ॥ ३४ ॥ मतिः श्रुतावधी चैव मिथ्यात्वसमवायिनः । मिथ्याज्ञाननि कथ्यन्ते न तु तेषां प्रमाणता ॥ ३५ ॥ अविशेषात्सदसतोरुपलब्धेर्यदृच्छया। यत उन्मत्तवज्ज्ञानं न हि मिथ्यादृशोऽञ्जसा ॥ ३६ ॥ वस्तुनोऽनन्तधर्मस्य प्रमाणं व्यञ्जितात्मनः । एकदेशस्य नेता यः स नयोऽनेकधा मतः ॥ ३७ ॥ द्रव्यपर्यायरूपस्य सकलस्यापि वस्तुनः। नयावंशेन नेतारौ द्वौ द्रव्यपर्ययार्थिको ॥ ३८॥ अनुप्रवृत्तिः सामान्य द्रव्यं चैकार्थवाचकाः। नयस्तद्विषयो यः स्याज्ञयो द्रव्याथिको हि सः ॥३९॥ व्यावृत्तिश्च विशेषश्च पर्यायश्चैकवाचकाः । पर्यायविषयो यस्तु स पर्यायार्थिको मतः॥ ४० ॥ शुद्धाशुद्धार्थसंग्राही त्रिधा द्रव्यार्थिको नयः। नैगमसंग्रहश्चैव व्यवहारश्च संस्मृतः॥ ४१ ॥ चतुर्धा पर्यायार्थः स्यादृजुशब्दनयाः परे। उत्तरोत्तरमत्रैषां सूक्ष्मसूत्रार्थभेदतः । शब्दः समभिरूद्वैवंभूतौ ते शब्दभेदगाः॥४२॥
(षट्पदक) चत्वारोऽर्थनया आद्यास्त्रयः शब्दनयाः परे। उत्तरोत्तरमत्रैषां सूक्ष्मगोचरता मता ॥४३॥