________________
तत्त्वार्थसारः ।
अवग्रहस्ततस्वीहा ततोऽवायोऽथ धारणा । बहोर्बहुविधस्यापि क्षिप्र स्यानिःसृतस्य च ॥ २१ ॥ अनुक्तस्य ध्रुवस्येति सेतराणां तु ते मताः । व्यक्तस्यार्थस्य विज्ञेयाश्चत्वारोऽवग्रहादयः ॥ २२ ॥ व्यञ्जनस्य तु नेहाद्या एक एव ह्यवग्रहः । अप्राप्यकारिणी चक्षुर्मनसी परिवर्ज्य सः ॥ २३ ॥ चतुर्भिरिन्द्रियैरन्यैः क्रियते प्राप्यकारिभिः । मतिपूर्व श्रुतं प्रोक्तमविस्पष्टार्थतर्कणम् ॥ २४ ॥ तत्पर्यायादिभेदेन व्यासाद्विशतिधा भवेत् । परापेक्षां विना ज्ञानं रूपिणां भणितोऽवधिः ॥ २५ ॥ अनुगोऽननुगामी च तदवस्थोऽनवस्थितिः । वर्द्धिष्णुयमानश्च षड्विकल्पः स्मृतोऽवधिः ॥ २६ ॥ देवानां नारकाणां च स भवप्रत्ययो भवेत् । मानुषाणां तिरश्चां च क्षयोपशमहेतुकः ॥ २७ ॥ परकीयमनःस्वार्थज्ञानमन्याऽनपेक्षया ।
स्यान्मनः पर्ययो भेदौ तस्यर्जुविपुले मती ॥ २८ ॥ विशुद्धयप्रतिपाताभ्यां विशेषश्चिन्त्यतां तयोः । स्वामिक्षेत्रविशुद्धिभ्यो विषयाश्च सुनिश्चितः ॥ २९ ॥ स्याद्विशेषोऽवधिज्ञानमनः पर्ययबोधयोः ।
असहायं स्वरूपोत्थं निरावरणमक्रमम् ॥ ३० ॥ घातिकर्मक्षयोत्पन्नं केवलं सर्वभावगम् । मतेर्विषयसंबन्धः श्रुतस्य च निबुध्यताम् ॥ ३१ ॥ असर्वपर्ययेष्वत्र सर्वद्रव्येषु धीधनैः ।
असर्वपर्ययेष्विष्टो रुपिद्रव्येषु सोऽवधिः ॥ ३२ ॥
१०५