SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०४ प्रथम गुच्छक । तत्त्वार्था सन्त्यमी नामस्थापनाद्रव्यभावतः । न्यस्यमानतयादेशात्प्रत्येकं स्युश्चतुर्विधाः ॥ ९ ॥ या निमित्तान्तरं किञ्चिदनपेक्ष्य विधीयते । द्रव्यस्य कस्यचित् संज्ञा तन्नाम परिकीर्तितम् ॥ १० ॥ साऽयमित्यक्षकाष्टादेः सम्बन्धेनान्यवस्तुनि | यद्व्यवस्थापनामात्रं स्थापना साभिधीयते ॥ ११ ॥ भाविनः परिणामस्य यत्प्राप्तिं प्रति कस्यचित् । स्याद्गृहीताभिमुख्यं हि तद्द्रव्यं ब्रुवते जिनाः ॥ १२ ॥ वर्तमानेन यत्नेन पर्यायेणोपलक्षितम् । द्रव्यं भवति भावं तं वदन्ति जिनपुङ्गवाः ॥ १३ ॥ तत्त्वार्थाः सर्व एवैते सम्यग्बोधप्रसिद्धये । प्रमाणेन प्रमीयन्ते नीयन्ते च नयैस्तथा ॥ १४ ॥ सम्यग्ज्ञानात्मकं तत्र प्रमाणमुपवर्णितम् । तत्परोक्षं भवत्येकं प्रत्यक्षमपरं पुना ॥ १५ ॥ समुपात्तानुपात्तस्य प्राधान्येन परस्य यत् । पदार्थानां परिज्ञानं तत्परोक्षमुदाहृतम् ॥ १६ ॥ इन्द्रियानिन्द्रियापेक्षमुक्तमव्यभिचारि च । साकारग्रहणं यत्स्यात्तत्प्रत्यक्षं प्रचक्ष्यते ॥ १७ ॥ सम्यग्ज्ञानं पुनः स्वार्थ व्यवसायात्मकं विदुः । मतिश्रुतावधिज्ञानं मनःपर्यय केवलम् ॥ १८ ॥ स्वसंवेदन मक्षोत्थं विज्ञानं स्मरणं तथा । प्रत्यभिज्ञानमूहश्च स्वार्थानुमितिरेव वा ॥ १९ ॥ बुद्धिर्मेधादयो याश्च मतिज्ञानभिदा हि ताः । इन्द्रियानिन्द्रियेभ्यश्च मतिज्ञानं प्रवर्तते ॥ २० ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy