________________
नमः सिद्धेभ्यः श्रीमदमृतचन्द्रमूरिकृतः
तत्त्वार्थसारः
जयत्यशेषतत्त्वार्थप्रकाशिप्रथितश्रियः। मोहध्वान्तौघनिर्भेदि ज्ञानज्योतिजिनेशिनः ॥१॥ अथ तत्त्वार्थसारोऽयं मोक्षमार्गकदीपकः ॥ मुमुक्षूणां हितार्थाय प्रस्पष्टमभिधीयते ॥२॥ स्थात्सम्यग्दर्शनज्ञानचारित्रत्रितयात्मकः। मार्गो मोक्षस्य भव्यानां युक्त्यागमसुनिश्चितम् ॥३॥ श्रद्धानं दर्शन सम्यग्ज्ञानं स्यादवबोधनम् । उपेक्षणं तु चारित्रं तत्त्वार्थानां सुनिश्चितः॥४॥ श्रद्धानाधिगमोऽपेक्षा विषयत्वमिता ह्यतः। बोध्यामागेवतत्त्वार्था मोक्षमार्ग बुभुत्सुभिः ॥५॥ जीवोऽजीवात्रवौ बन्धः संवरो निर्जरा तथा। मोक्षश्च सप्त तत्त्वार्था मोक्षमार्गेषिणामिमे ॥ ६॥ उपादेयतया जीवोऽजीवो हेयतयोदितः।। हेयस्यास्मिन्नुपादानहेतुत्वेनास्त्रवः स्मृतः॥७॥ हेयस्यादानरूपेण बन्धः स परिकीर्तितः। संवरो निर्जरा हेयहानहेतुतयोदितौ। हेयप्रहाणरूपेण मोक्षो जीवस्य दर्शितः ॥ ८॥ ..
... ... ... (षट्पदम् )