________________
तत्वार्थधिगममोक्षशास्त्रम् ।
सकषायत्वाजीवः कर्मणो योग्यान्पुद्गलानादत्तेस बन्धः॥२॥ प्रकृतिस्थित्यनुभागाप्रदेशास्तद्विधयः ॥ ३॥ आद्यो ज्ञानदर्शना. वरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ॥ ४॥ पञ्चनवद्वयटाविंशति चतुर्दिचत्वारिंशद्विपञ्चभेदायथाक्रमम् ॥५॥ मतिश्रुतावधिमनः पर्यायकेवलानाम् ॥ ६॥ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च ॥ ७॥ सदसद्ये ॥ ८॥ दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिदिनवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यऽकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुनपुंसक्वेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ॥९॥ नारकतैर्यग्योनमानुषदैवानि ॥१०॥गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंहननस्पर्शरसगन्धवर्णानुपूर्व्याऽगुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहा. योगतयः प्रत्येकशरीरत्रसशुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीर्तिसेतराणि तीर्थकरत्वं च ॥ ११ ॥ उच्चैनीचैश्च ॥१२॥ दानलालभोगोपभोगवीर्याणाम् ॥ १३॥ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परास्थितिः ॥ १४ ॥ सप्ततिर्मोहनीयस्य ॥ १५॥ विशतिर्नामगोत्रयोः॥१६॥ त्रयस्त्रिंशत्सागरापमाण्यायुषः ॥ १७ ॥ अपरा द्वादशमुहूर्ता वेदनीयस्य ॥ १८॥ नामगोत्रयोरटौ ॥ १९ ॥ शेषाणामन्तर्मुहूर्ता ॥२०॥ विधाकोऽनुभवः ॥ २१ ॥ स यथानाम ॥ २२ ॥ ततश्च निर्जरा ॥ २३॥ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २४ ॥सवेद्यशुभाशुर्नामगोत्राणि पुण्यन् ॥ २५ ॥ अतोऽन्यत्पापम् ॥ २६ ॥
___ इति तत्त्वार्थाधिगमे मोशशास्नेऽटमोऽध्यायः ॥ ८ ॥