________________
प्रथम गुच्छक।
परिग्रहः ॥ १७ ॥ निःशल्यो व्रती ॥ १८ ॥ अगार्यनगारश्च ॥ १९ ॥ अणुव्रतोऽगारी ॥ २० ॥ दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागवतसम्पन्नश्च ॥ २१॥ मारणान्तिकीसल्लेखनां जोषिता ॥ २२ ॥ शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाःसम्यग्दृष्टेरतीचासः ॥ २३ ॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ २४ ॥ बन्धबधच्छेदातिभारारोपणानपाननिरोधाः ॥ २५ ॥ मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः॥ २६ ॥ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मा. नप्रतिरूपकव्यवहाराः ॥ २७ ॥ परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानङ्गक्रीडाकामतीव्राभिनिवेशाः ॥२८॥ क्षे
वास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिकमाः ॥ २९॥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि ॥३०॥ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥ ३१ ॥ कन्दर्प कौत्कुच्यमौख-समीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि ॥ ३२ ॥ योगदुःप्रणिधानानादरस्मृत्यनुपस्थानानि ॥ ३३ ॥ अ• प्रत्यवेक्षिताऽप्रमोजितोत्सर्गादानसंस्तरोपक्रमणानादरस्कृत्यनुपस्थानानि ॥ ३४ ॥ सचित्तसम्बन्धसन्मिश्राभिषवदुःपक्वाहाराः॥ ३५ ॥ सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥ ३६ ॥ जीवितमरणाशंसामित्रानुरागसुखानुवन्धनिदानानि ॥ ३७ ॥ अनुग्रहार्थ स्वस्यातिसर्गो दानम् ॥३॥ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥ ३९ ॥
___ इति तत्त्वार्थाधिगमे मोक्षशालो सप्तमोऽध्यायः ॥ ७ ॥ मिथ्यादर्शनाविरतिप्रमादकषाययोगा वन्धहेतवः ॥१॥