________________
तत्त्वार्थाधिगममोक्षशास्त्रम्। • त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु ॥ ३१ ॥ आ. रणाच्युतादूर्द्धमेकैकेन नवसु अवेयकेषु विजियादिषु सर्वार्थसिद्धौ च ॥ ३२ ॥ अपरा पल्योपममधिकम् ॥ ३३ ॥ परतः परतः पूर्वापूर्वानन्तराः ॥ ३४ ॥ नारकाणां च द्वितीयादिषु ॥ ३५ ॥ दशवर्षसहस्राणि प्रथमायाम् ॥ ३६ ॥ भवनेषु च ॥३७॥ व्यन्तराणां च ॥ ३८ ॥ परा पल्योपममधिकम् ॥३९॥ ज्योतिकाणां च ॥ ४०॥ तदष्टभागोऽपरा ॥४१॥ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥ ४२ ॥
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे चतुर्थोऽध्यायः ॥ ४ ॥ अजीवकायाधर्माधर्माकाशपुद्गलाः ॥ १॥ द्रव्याणि ॥२॥ जीवाश्च ॥३॥ नित्यावस्थितान्यरूपाणि ॥ ४॥ रूपिणः पुद्गलाः ॥५॥ आ आकाशादेकद्रव्याणि ॥ ६॥ निष्क्रियाणि च ॥ ७ ॥ असङ्ख्येयाः प्रदेशा धमाधम्मकजीवानाम् ॥ ८॥ आकाशस्यनन्ताः ॥९॥ सङ्ख्येयासङ्ख्येयाश्च पुद्गलानाम् ॥ १० ॥ नाणोः ॥ ॥ ११॥ लोकाकाशेऽवगाहः ॥ १२॥ धर्माधर्मयोः कृत्स्ने ।। १३ ।। एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४॥ असङ्ख्येयभागादिषु जीवानाम् ॥ १५॥ प्रदेशलंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ गतिस्थित्युपग्रही धर्माधर्मयोरुपकारः॥ १७ ॥ आकाशस्यावगाहः ॥ १८ ॥शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥१९॥ सुखदुःखजीवितमरणोपग्रहाश्च ॥२०॥ परस्परोपग्रहो जीवानाम् ॥ २१ ॥ वर्तनापरिणामक्रियापरत्वापरत्वे च कालस्य ॥ २२ ।। स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥ २३ ॥ शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमश्छायाऽऽतपोद्योतवन्तश्च ॥ २४ ॥ अणवस्कन्धाश्च ॥ २५ ॥ भेदसवातेभ्य