________________
प्रथम गुच्छक।
- देवाश्चतुर्णिकायाः ॥ १॥ आदितस्त्रिषु पीतान्तलेश्याः ॥२॥ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥ ३॥ इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकशः॥ ४॥ त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः ॥५॥ पूर्वयो-न्द्राः ॥६॥ कायप्रवीचारा आ ऐ. शानात् ॥ ७॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ॥ ८॥ परेऽ प्रवीचाराः ॥९॥ भवनवासिनोसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिकुमाराः ॥ १० ॥ व्यन्तरा:किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥११॥ ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाच ॥१२॥ मेरुप्रदक्षिणा नित्यगत. यो नृलोके ॥ १३ ॥ तत्कृतः कालविभागः ॥ १४ ॥ बहिरवस्थिताः ॥ १५॥ वैमानिकाः ॥ १६॥ कल्पोपपन्नाः कल्पातीताश्च ॥ १७ ॥ उपर्युपरि ॥ १८ ॥सौ धम्मैशानसानत्कुमारमाहेन्द्रब्रमब्रह्मोत्तरलान्तवकापिष्टशुक्रमहाशुक्रशतारसहस्रारेवानतप्रा. णतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ॥ १९ ॥ स्थितिप्रभावसुखद्युतिलेश्या विशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥ २०॥ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥२१॥ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ २२ ॥ प्राग्वेयकेभ्यः कल्पाः ॥ २३ ॥ ब्रह्मलोकालया लौकान्तिकाः ॥२४॥ सारस्वतादित्यवयरुणगर्दतोयतुषिताब्याबाधारिणाश्च ॥ २५ ॥ विजयादिषु द्विचरमाः॥ २६॥ औपपादिकमनुष्ये. भ्यः शेषास्तिर्यग्योनयः ॥२७॥ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमा हीनमिताः ॥ २८ ॥ सौधर्मेशानयोः सागरोपमे अधिक ॥ २९ ॥ सानत्कुमारमाहेन्द्रयोः सप्त ॥ ३० ॥