________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः॥२॥ . . सम्बन्धः अनाचारभांडसेवी तस्य । जम्मणमरणागुबंधीणी जन्मोन्पत्तिः, मरणं मृत्युस्तयोग्नुबन्धः सन्तानः स येषां विद्यते तानि जन्ममरणानुबन्धीनि संसारकारणानीत्यर्थः । एतानि मरणानि जन्ममरणानुबन्धीनि अनाचारभांडसे- . वीनि यतोऽतो वालमरणानीति । अथवा अनाचारसेवानि एतानि मरणानि संसारकारणानीति न सदाचारस्य ।
एवं श्रुत्वा क्षपकः संवेगनिर्वेदपरायण एवं चिन्तयतिउड्डमधोतिरियमिदुकदाणिवालमरणाणिबहुगाणि दंसणणाणसहगदो पंडियमरणं अणुमरिस्से।७५॥ ऊर्ध्वमधस्तिर्यक्षु तु कृतानि बालमरणानि बहुकानि। दर्शनज्ञानसहगतः पांडतमरणं अनुमरिष्यामि ७५ उड्ढं-ऊर्ध्व ऊर्ध्वलोके । अधो-अधसि अधोलोके नरकभवनव्यन्तरज्योतिष्ककल्पे । तिरियहि दु-तियतु च एकेन्द्रियादिपंचेन्द्रियपर्यन्तजातिषु । कदाणि-कृतानि प्राप्तानि बालमरणानि । बहुगाणि-बहूनि । दंसणणाणसहगदो-दर्शनज्ञानाभ्यां साध, गदो-गतः प्राप्तः, पंडियमरण-पण्डितमरणं शुद्धपरिणापचारित्रपूर्वकमाणत्यागं । अणुमरिस्से-अनुम. रिष्यामि संन्यासं करिष्यामि । ऊधिस्तियक्षु च बहूनि बालमरणानि यतो मया प्राप्तानि, अतो दर्शनज्ञानाभ्यां सार्थ पण्डितमरणं गतोऽहं मरिष्यामीति ।