SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मूलाचारे। अनभिप्रेतानि मरणाणि-मृत्यून् । मरिहंति-मरिष्यन्ति मृत्यु प्राप्स्यन्तीत्यर्थः । ते वराया-त एवंभूता वराका अनाथा:। जे जिणवयणं-ये जिनवचनं सर्वज्ञागमं । ण जाणंति-न जानन्ति नावबुध्यते । ये जिनवचनं न जानन्ति ते वराका बालमरणानि बहुपकाराणि अकामकृतानि च बहूनि मरणानि प्राप्स्यन्तीति । अथ कानि तानि बालमरणानीत्यत आहसत्थग्रहणं विसभक्खणं च जलणं जलप्पवेसोय अणयारभंडसेवी जम्मणमरणाणुबंधीणि॥७॥ शस्त्रग्रहणं विषभक्षणं च ज्वलनं जलप्रवेशश्च । अनाचारभांडसेवी जन्ममरणानुबंधिनः ॥ ७४ ॥ सत्थग्गहणं-शस्त्रेणात्मनो ग्रहण मारणं शस्त्रग्रहण । शस्त्रग्रहणादुत्पन्नं मरणमपि शस्त्रग्रहण कार्य कारणोपचारात् । विसभक्खणं-विषस्य मारणात्मकद्रव्यस्य भक्षणमुपयुंजन विषभक्षणं तथैव सम्बन्धः कर्तव्यः । चः समुच्चयार्थः । जलणं ज्वलनादग्नेरुत्पन्नं जालनं । जलप्पवेसो य-जले पानीये प्रवेशो निमज्जनं निरुच्छ्वासं जलप्रवेशश्च तस्माज्जातं स एव वा मरणं । प्रणयारभण्डसेवी-अनाचारभांडसेवी न आचारोऽनाचारा पापक्रिया स एव भांडं द्रव्यं तत्सेवत इत्यनाचारभांडसेवी मरयेन सम्बन्धः । अथवा पुरुषेण
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy