SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ मूलाचारे । यद्यपि पूर्वसूत्रेणास्पार्थस्य प्रतीतिस्तथापि द्रव्यार्थिक पर्यायार्थिक शिष्यसंग्रहार्थः पुनरारम्भः एकान्तमत निराकरणार्थं च । संसारकारण स्वरूपं प्रतिपादयन्नाह जे पुणगुरुप डिणी या बहुमोहाससबलाकुसीला य । असमाहिणा मरते ते होंति अणतसंसारा ॥ ये पुनः गुरुप्रत्यनीका बहुमोहाः सशबलाः कुशीलाश्र असमाधिना म्रियते ते भवति अनंतसंसाराः ॥ ७१ जे पुरा - ये पुन: । गुरुपडिणीया - गुरूणां प्रत्यनीका: प्रतिकूला : गुरुप्रत्यनीकाः । बहुमोहा - मोहप्रचुराः रागद्वेचाभिहताः । ससबला सह शबलेन लेपेन वर्तते इति सशवलाः कुत्सिताचरणाः । कुसीला य-कुशीलाः कुत्सितं शीलं व परिरक्षां येषां ते कुशीलाश्च । असमाहिणा समाधिना मिथ्यात्वसमन्वितार्त्तरौद्रपरिणामेन । मरतेम्रियन्ते । ते-ते । होंति - भवन्ति ते एवं विशिष्टाः । अणंतसंसारा - अनन्तसंसारा अर्धपुद्गलप्रमाण संसृतयः । ये पुनः गुरुप्रतिकूलाः, बहुमोहा: कुशीलास्तेऽसमाधिना म्रियन्ते ततश्चानन्तसंसारा भवन्तीति । अथ परीतसंसाराः कथं भवन्तीति चेदतः प्राह जिणवयणे अणुरचा गुरुवयणं जे करंति भावेण । असबल असंकिलिट्ठा ते होंति परिचसंसारा ७२ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy