________________
मूलाधारे। अणुबद्धवेररोई असुरेसूबवजदे जीवो ॥६॥ क्षुद्रः क्रोधी मानी मायावी तथा सक्लिष्टस्तपसि चरित्रे। अनुबद्धवैररोची असुरेषूपपद्यते जीवो ॥ ६८ ॥ ___ खुद्दी क्षुदः पिशुनः। कोही-क्रोधी । माणी-मानीगर्वयुक्तः । माई-मायावी । तह य-तथा च । संकिलिट्ठोसंक्लिष्मः संक्ल गपरायणः । तवे-तपसि । चरित्ते य-चरित्रे च । अणुबद्धवेररोई-अनुबद्ध वैरं रोचते अनुबद्धवैररोची कषायवहुलेषु रुचिपरः । असुरेसूवबज्नदे-असुरेघूत्पद्यते अंबावरीषसंज्ञकभावनेषु । जीवो-जीवः । य: क्षुद्रः, क्रोधी, मानी, मायावी अनुबद्धवैररोची तथा तपसि, चरित्रे च यः संक्लिष्टः सोऽसुरभावनयासुरेषू-पद्यते इति ।
व्यतिरेकद्वारेण बोधि प्रतिगदयन्नाहमिच्छादंसणरचा साणदाणा किण्हलेसमोगाढा इह जे मरंति जीवा तेर्सि पुण दुल्लहा बोही॥ मिथ्यादर्शनरक्ताः सनिदानाः कृष्णलेश्यामागाढाः। इह ये म्रियंते जीवाः तेषां पुनः दुर्लभा बोधिः ॥६९॥
मिच्छादसणरत्ता-मिथ्यात्वदर्शनरताः अतत्त्वार्थरुचयः । सणिदाणा-सह निदानेनाकांक्षया वर्तत इति सनिदानाः । 'किण्हलेसं-कृष्णलेश्यां अनन्तानुबंधिकषायानुरञ्जितयोग