________________
६८ . मूलाचारे।
क्षपकेण पृष्टः आचार्यः प्राहकंदप्पमाभिजोग्गं किव्वस सम्मोहमासुरतं च । ता देवदुग्गईओ मरणम्मि विराहिए होति॥६॥ कांदपमाभियोग्यं कैल्विष्यं स्वमोहं आसुरत्वं च । ता देवदुर्गतयो मरणे विराधिते भवति ॥ ६३ ॥
द्रव्यभावयोरभेदं कृत्वा चेदमुच्यते । कंदप्पं कंदर्पस्य भावः कान्दर्भमुपप्लवशीलगुणः । प्राभिजोग्गं अभियोगस्य भावः आभियोग्यं तन्त्रमन्त्रादिभीरसादिगाईयं। किदिवस--किल्विषस्य भावा कैल्बिष्यं प्रतिकूलाचरणं । सम्मोह--स्वस्य मोहः स्वमो. हस्तस्य भावः स्वमोहत्वं, शुनो मोह इव मोहो वेदोदयो यस्य स श्वमोहस्तस्य भावः श्वमोहत्वं सह मोहेन वा वर्तते इति तस्य भावः समोहत्वं मिथ्यात्वभावनातात्पर्य । आसुरत्तं च--असु. रत्वं च--असुरस्य भावः असुरत्वं रौद्रपरिणामसहिताचरणं । ता एताः । देवदुग्गईओ-देवदुर्गतयस्तगुणैस्ताःप्राप्यन्ते इतिकृत्वा तद् पदेशः, कारणे कार्योपचारात् । मरणम्मि-मरणे मृत्युकाले सम्यक्त्वे, विराहिए-विराधिते परिभूते होंति-भवन्ति । सम्यक्त्वे विनाशिते मरणकाले एताः कन्दर्पाभियोग्यकिल्बिषस्वमोहासुरदेवदुर्गतयो भवन्तीति ।
किं तत्कान्दर्प इत्यत आहअसत्तमुल्लावेतो पण्णावेतो य बहुजणं कुणइं।