SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ वृहत्पत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ६७ लशब्दोऽनेकेष्वर्थेषु विद्यते, तत्र परोक्षे दृष्टव्या भागमे एवमुमित्यर्थः । बोही-बोधिः सम्यक्त्वं रत्नत्रयं वा। समारो य --संसारश्च चतुर्गतिलक्षणः। अणंतो-अनन्तः अर्द्धपुद्गलप्रमाणः कुतोऽस्यानन्तत्वं ? केवलज्ञानविषयत्वात् । होइ--भवति पुणो--पुनः । प्रागमे काले--प्रागमिष्यति समये । मरणकाले सम्यक्त्वविरायने सति, दुर्गतिर्भवति, बोधिश्च दुर्लभा, आगमिष्यति काले संसारश्चानन्तो भवतीति । अत्रैवाभिसम्बंधे प्रश्नपूर्वकं सूत्रमाहका देवदुग्गईओका बोही केण ण बुज्झए मरणं। केण व अणंतपारे संसारे हिंडंए जीओ ॥२॥ का देवदुर्गतयः का बोधिः केन न बुध्यते मरणं । केन वा अनंतपारे संसारे हिंडते जीवः ॥ ६२ ॥ का देवदुग्गईओ-का देवदुर्गतयः किविशिष्टा देवदुर्गतयः। का बोही--का बोधिः । केण व-केन च । ण बुज्झए--न बुध्यते । मरण- मृत्युः । केण व-केन च कारणेन । अणन्तपारे अनन्तोऽपरिमाणः पार: समाप्तिर्यस्यासौ अनन्तपारस्तस्मिन् । संसारे--संसरणे । हिंडए हिंडते गच्छति । जीवो-- जीवः । हे भट्टारक ! का देवदुर्गतयः काचबोधिः, केन च परिणामेन न बुध्यते मरणं, संसारे च केन कारणेन परिभ्रमति जीवः।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy