________________
बृहत्प्रत्यास्थान संस्तरस्तवाधिकारः ॥ २ ॥
家
तव - तपः कार्यसन्ताप, ख्वं रूपं समचतुरस्रसंस्थानगौरादिवर्ण का न्तियौवनोद्भवरमणीयता । जाइ-जातिः मातृकंसन्तानशुद्धिः । एतैरेतेषां वा, मया प्रदा गर्वाः । मदशब्दः प्रत्येकमभिसम्बध्यते । विज्ञानमदः, ऐश्वर्यमदः, श्राज्ञामदः,
कुलमदः, बलमदः, जातिमदः, तपोमदः, रूपमद इति संज्ञाभेदैः सुगमत्वान्न विस्तरः ।
अथ के त्रयस्त्रिंशत्पदार्था येषां त्रयस्त्रिंशदासादनानीत्यत आहपंचेव अस्थिकाया छज्जीवणिकाय महव्वया पंच । पवयणमाउपयत्था तेतीसच्चासणा भणिया ॥५४ पंचैव अस्तिकायाः षड्जीवनिकाया महाव्रतानि पंच प्रवचनमातृकाः पदार्थाः त्रयस्त्रिंशदासादना भणिताः
{
पंचैत्र - पंचैव । अस्थिकाया - अस्तिकायाः कायो निचयः परस्परप्रदेशसम्बन्धो येषां तेऽस्तिकायाः अस्तिमन्तो दृष्टव्या जीवपुद्गल धर्माधर्माकाशाः । कालस्य प्रदेशप्रचयो नास्तीत्यतोऽस्तिकायत्वं नास्ति । छज्जीवणिकाय - षट् च ते जीवनिकायाश्च षड्जीवनिकायाः पृथिवीकायिकादयः । महव्वया पंच - महाव्रतानि पंच । पवयणमाउ - प्रवचनमातृकाः पंचसमितयः त्रिगुप्तयश्च । पयत्था - पदार्थाः जीवाजीवास्स्रवबन्धसंवर निर्जरामोक्ष पुण्यपापानि । तेतीसच्चासणा - त्रयः स्त्रिशदासादनाः । भणिया - भणिताः पंचास्तिकायादि