________________
मूलाचारे। दनाः परिभवास्तास्त्रयस्त्रिंशदासादनाः, अथवा तन्निमित्त. स्वात् ताच्छब्दयन्ते । रायदोस च-रागद्वेषौ च, आत्मनीनानात्मनीनवस्तुप्रीत्यप्रीती । गरिहामि-गहें नाचरामीत्यर्थः । सप्तभयाष्टमदसंज्ञागौरवाणि त्रयस्त्रिंशत्पदार्थासादनं च रागद्वेषौ च त्यजामीत्यर्थः। ... अथ कानि सप्तभयानि के चाष्टौ मदा इति पृष्टे तत आहइहपरलोयचाणं अगुत्तिमरणंच वेयणाकम्हिभया विण्णाणिस्सरियाणा कुलबलतवरूवजाइ मया इहपरलोकौ अत्राणमगुप्तिमरणं वेदनाकस्मिकभयानि विज्ञानमैश्वर्यं आज्ञा कुलबलतपोरूपजातिः मदाः ५३ ___ इहपरलोयं-इह च परश्च इहपरौ तौ च तो लोकौ चेह. ' परलोकौ । अत्ताणं-अत्राणमपालनं, इहलोकभयं, परलोकभयं, अत्राणभयं । अगुत्ति-अगुप्तिः प्राकाराद्यभावः मरणं च-मृत्युश्च । वेयणा-वेदना पीडा । अकम्हि-पाकस्मिकं घनादिगोद्भवम् । भयराब्दः प्रत्येकपभिसम्बध्यते। इहलोकभयं, परलोकभयं, अत्राणभयं, अगुप्तिभयं, परणभयं, वेदनामय, आकस्मिकभयं चेति । विगणाण-विज्ञानं अक्षरगन्धर्वादिविषयम् । इस्सरिय-ऐश्वर्य द्रव्यादिसम्पत् । आणा-आज्ञा वचनानुल्लंघनम् । कुलं-शुद्धपैतृकाम्नायः इक्ष्वाक्वाद्युत्पत्तिा । वलं-शरीराहारादिप्रभवा शक्तिः।