________________
मूलाचारे।
क्षमे सर्वजीवान् सर्वे जीवा क्षमता मम । मैत्री मे सर्वभूतेषु वैरं मम न केनापि ॥४३॥
खमामि-क्षमेऽहं क्रोधादिकं त्यक्त्वा मैत्रीभावं करोमि सन्वनीवाणं-सर्वे च ते जीवाश्च सर्वजीवास्तान शुभाशुभपरिणामहेतून् । सव्वे जीवा-सर्वे जीवाः समस्तपाणिनः । खमंतु क्षमन्तां सुष्ट्रपशमभावं कुर्वन्तु । मे-मम । मिस्ती-मैत्री मित्रत्वं । सवभूदेसु-सर्वभूतेषु । वेरं-वैरं । मज्म-मम । ण केणं वि-न केनापि । सजीवान् क्षमेऽहं, सर्व जीवा मे क्षमन्तां, एवं परिणामं यतः करोमि ततो वैरं मे न केनाsपि मैत्री सर्वभूतेष्विति । - न केवलं वैरं त्यजामि, वैरनिमित्तं च यत् तत्सर्वं त्यजामीत्यतः प्राह
रायबंधं पदोसं च हरिसं दीणभावयं । उस्सुगतं भयं सोगंरदिमरदिंच वोसरे॥४४॥ रागबंध प्रद्वेषं च हर्ष दीनभावकम् । उत्सुकत्वं भयं शोक रतिमरतिं च व्युत्सृजामि ॥
रायबंध-रागस्य रागेण वा बन्धो रागबन्धः स्नेहानुबन्धस्तम्। पदोसं च प्रवेषमप्रीतिं च । हरिसं-हर्ष लाभादिना आनन्दम् । दीणभावयं-दीनभावं याञ्चादिना करुणामिलापदैन्यं च । उस्सुगत्तै-उत्सुकत्वं सरागमनसान्यचिंतनं ।