________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ५५ मयं भीतिम् । सोयं-शोकं इष्टवियोगवशादनुशोचनम् । रई-रतिमभिप्रेतपाप्तिम् । अरइं-अरति अभिप्रेतामाप्ति । वोसरे-व्युन्म नामि । रागानुबन्धद्वेषहर्षदीनभावमुत्सुकत्वभयशोकरत्यरति च त्यजानीत्यर्थः । ममति परिवजामि णिम्ममत्तिमुवट्ठिदो। आलंधणं च मे आदा अवसेसाई वासरे॥४५॥ ममतां परिर्वजयामि निर्ममत्वमुपस्थितः। आलंबनं च मे आत्मा अवशेषाणि व्युत्सृजामि ४५
मस्ति -ममत्वं । परिवजामि-परिवर्जामि परिहरेऽहं । णिम्ममति निर्ममत्वमसंगत्वं । उवहिदो-उपस्थितः । यदि सर्व भवता त्यज्यते किमालम्बनं भवष्यतीत्यत आह-आलंवणं च आलम्बनं चाश्रयः । मे मम । प्रादा-आत्मा । अवसेसाई-अवशेषाणि अधिकानि । वोमरे-व्युत्सृजामि । कि बहुनोक्तेनानन्तज्ञानदर्शनसुखवीर्यरत्नत्रयादिकं मुक्त्वान्यत्सर्व त्यजामीत्यर्थः।
आत्मा च भरता किमिति कृत्वा न परित्यज्यते इत्यत आह आदा हु मज्झ णाणे आदा मे दंसणे चरिचे य आदा पच्चक्खाणे आदा मे संवरे जोए ॥४६॥ आत्मा हिमम ज्ञाने आत्मा मे दर्शने चरित्रे च । आत्मा प्रत्याख्याने आत्मा मे संवरे योगे॥४६॥