________________
बृहत्पत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ५१ भ्यश्च । महेसिणं-महर्षिभ्यश्च केवलर्द्धिप्राप्तेभ्यः । संथरंसंस्तरं सम्यग्दर्शनज्ञानचारित्रतपोमयं भूमिपाषाणफलकतृणमयं वा । पडिवज्जामि-प्रपद्ये अभ्युपगच्छामि । जहा जथा । केवलिदेसियं-केवलिभिर्दष्टः केवलिष्टस्तं केवलज्ञानिमिः प्रतिपादितमित्यर्थः । धुतपापेभ्यः सिद्धेभ्यो महर्षिभ्यश्च नमोऽस्तु । केवलिदृष्टं संस्तरं प्रतिपद्येऽहं इति पूर्ववत्सम्बन्ध कर्तव्यः । सिद्धानां नमस्कारो मंगलादिनिमित्तं महर्षीणां च तदनुष्ठितत्वाच्चेति ।
प्रतिज्ञानिर्वहणार्थमाहजं किंचि मे दुचरियं सव्वं तिविहेण वोसरे । सामाइयं च तिविहं करेमि सव्वं णिरायारं॥३९ यत् किंचित् दुश्चरितं सर्वं त्रिविधेन व्युत्सृजामि । सामायिकं च त्रिविधं करोमि सर्वं निराकारम् ॥३९
जंकिंचि-यत्किचित् । मे-मम । दुच्चरियं-दुश्चरितं पापक्रियाः । सव्वं-सर्व निरवशेष । तिविहेण-त्रिविधेन मनोवचनकायैः । वोसरे-व्युत्सृजामि परिहरामि । सामाइयं चसामायिक समन्वीभावं च । तिबिह-त्रिप्रकारं मनोवचनका. यगतं कृतकारितानुमतं वा । करेमि-कुर्वेऽहम् । सव्व-सर्व सकलम् । णिरायारं--प्राकारान्निर्गतं निराकारं निर्दिकल्पम् । समस्ताचरणं निर्दोषं यत्स्तोकमपि दुश्चरितं तत्सर्व व्युत्सृजामि त्रिविधेन, सामायिकं च सर्व निरतिचारं नि