________________
.५०
मूलाचारे।
कथित जिनप्रज्ञप्तं जिनकथितं । पच्चक्खामि-प्रत्याख्यामि परिहरे । पावयं-पापकं दुःखनिमित्तम् । सर्वद्वंद्वरहितेभ्यः सिद्धेभ्योऽर्हद्भ्यो नमोस्तु । सर्वज्ञपूर्वक भागमो यतोऽतस्तन्नमस्कारानन्तरमागमश्रद्धानं श्रद्दधे जिनप्रज्ञप्तमित्युक्तं सम्यक्त्वपूर्वकं च यतः आचरणमतः प्रत्याख्यामि सर्वपापकमित्युक्तं । अथवा क्त्वान्तोऽयं नमःशब्दः प्राकृते लोपवलेन सिद्धः। सिद्धानहतश्च नमस्कृत्ग जिनोक्तं श्रद्दधे । पापं च प्रत्याख्यामीत्यर्थः । अथवा मिडन्तोऽयं नमःशब्दः तेनैवं सम्बन्धः कर्तव्य:-सर्वदुःखपहीणान् सिद्धान् अर्हतश्च नपस्यामि जिनागमं च श्रद्दधे । पापं च प्रत्याख्यामीत्येकक्षणेऽनेकक्रिया एकस्य कर्तुः संभवंति इत्यनेकान्तबोतनार्थमनेन न्यायेन सूत्रकारस्य कथनमिति ॥
___ भक्तिप्रकर्षार्थ पुनरपि नमस्कारमाहणमोत्थु धुदपावाण सिद्धाणं च महेसिणं । संथरं पडिवजामि जहा केवलिदेसियं ॥ ३८॥ नमोस्तु धुतपापेभ्यः सिद्धेभ्यः च महर्षिभ्यः । संस्तरं प्रतिपद्ये यथा केवलिदेशितम् ॥ ३८ ॥
अथवा प्रत्याख्यानसंस्तरस्तवौ द्वावधिकागै, द्वे शास्त्रे वा गृहीत्वा एकोऽयं अधिकारी कृतः, कुतो ज्ञायते नमस्कारद्वितयकरणादिति । णमोत्थु-नमोऽस्तु । धुदपावाणं-धुतं विहतं पापं कर्म यैस्ते धुतपापास्तेभ्यः । सिद्धाणं च सिद्धे