________________
बृहत्पत्याख्यानसंस्तरस्तवाधिकारः ॥२॥
प्रत्याख्यानसंस्तरस्तवप्रतिपत्तृभ्यां सहाभेदं कृत्वात्मनः ग्रंथकर्ता प्रत्याख्यानसंस्तरस्तवनामधेयद्वितीयाधिकारार्थमाह । अथवा षटकाला यतीनां भवन्ति तत्रात्मसंस्कारसल्लेखनोत्तमार्थकालास्त्रयः आराधनायां कथ्यते । शेषा दीक्षाशिक्षागणपोषणकाला पाचारे, तत्रायेषु त्रिशु कालेषु यधुपस्थितं मरणं तत्रैवं. भूत परिणामं विदधेहमित्यत आह-. सव्वदुक्खप्पहीणाणं सिद्धाणं अरहदो णमो। सद्दहे जिणपण्णवं पच्चक्खामि य पावयं ॥३७॥ सर्वदुःखप्रहीणेभ्यः सिद्धेभ्यः अर्हड्यो नमः। श्रद्दधे जिनप्रज्ञप्तं प्रत्याख्यामि च पापकं ॥ ३७ ॥
सव्वदुक्खप्पहीणाणं-सर्वाणि च तानि दुःखानि च सर्वदुःखानि समस्तद्वन्द्वानि तैः प्रहीणा रहिताः । अथवा सर्वाणि दुःखानि प्रहीणानि येषां ते सर्वदुःखमहीणास्तेभ्यः । सिद्धाण-सिद्धेभ्यः सम्यक्त्वाद्यष्टगुणैश्वर्येभ्यः । अरहदोअर्हद्भ्यश्च नवकेवललब्धिप्राप्तेभ्यश्च चशब्दोऽनुक्तोऽपि दृष्टव्यः । णमो-नमो नमोऽस्त्वित्यर्थः। सहहे-श्रधे रुचि कुर्वे । जिणपण्णत्तं-कर्मारातीन् जयन्तीति जिनाः तैः प्राप्त