________________
मूलगुणाधिकार। निराकतिरवमोदर्य । तया आहारसंशाया जयः गृहादिगणनान्यायेन वृत्तिपरिसख्यानं । तथा मनोवाक्कायक्रियामीरसगोचरगा त्यजन रसपरित्यागः। काये सुखाभिलापत्यजनं कायलेशः । चित्तव्याकुलतापराजयो विवक्तशयनासनम् । स्वकृतापराधगृहनत्यजनं आलोचना । स्वकृतादशुभयोगात्मतिनिवृत्तिः प्रतिक्रमणं । तदुभयोज्झनमुभयम् । येन यत्र वा अशुभयोगोऽ भूत् तन्निराक्रिया ततोऽपगमनं विवेकः । देहे ममत्वनिरासः कायोत्सर्गः । तपोऽनशनादिकम् । असंयमजुगुप्सार्थ प्रव्रज्याहापनं छेदः। पुनश्चारित्रादानं मूलं । कालप्रमाणेन चातुर्वर्यश्रमणसंघावहिष्करणं परिहारः । विपरीतं गतस्य मनसः निवर्तनं श्रद्दधानं, दर्शनज्ञानचरित्रतपसामतीचारा अशुभक्रियास्तासामपोहनं विनयः । चारित्रस्य कारणानुमननं वैयावृत्त्यम् । अंगपूर्वाणां सम्यक पठनं स्वाध्यायः। शुभविषये एकाग्रचिन्तानिरोधनं ध्यानम् । सावद्ययोगेभ्य आत्मनो गोपन गुप्तिः । सा च मनोवाक्कायक्रियाभेदास्त्रिप्रकारा । एतेषां सर्वेषां तपसां गुप्तीनां च नित्ययुक्तानां च मूलगुणेष्वेवान्तर्भावः । कादाचित्कानां चोत्तरगुणेष्वन्तर्भाव इति, तथा सम्यक्त्वज्ञानचरित्राणामपि मूलगुणेष्वन्तर्भावस्तैर्विना तेषामभावादिति ॥
मूलगुणफलपतिपादनार्थोपसंहारगाथामाहएवं विहाणजुचे मूलगुणे पालिऊण तिविहेण ।