________________
मूलाचारे। मुहर्तेषु भोजनक्रियाया या निष्पत्तिस्तदेकभक्तमिति । अथवा अहोरात्रमध्ये द्वे भक्तवेले तत्र एकस्यां भक्तवेलायां पाहारग्रहणमेकभक्तमिति । एकशब्दः संख्यावचनः भक्तशब्दोऽपि कालवचन इति । एकभक्तैकस्यानयोः को विशेष इति चेन्न पादविक्षेपाविक्षेपकृतत्वाद्विशेषस्य, एकस्मिन् स्थाने त्रिमुहूर्तमध्ये पादविक्षेपमकृत्वा भोजनमेकस्थानं, त्रिमुहूर्तकालमध्ये एकक्षेत्रावधारणरहिते भोजनमेकभक्तमिति । अन्यथा मूलगुणोत्तरगुणयोरविशेषः स्यात् न चैवं प्रायश्चित्तेन विरोधः स्यात् । तथा चोक्तं प्रायश्चित्तग्रन्थेन, एकस्थानमुत्तरगुणः एकभक्तं तु मूलगुण इति । तत्किमर्थमिति चेन्न इन्द्रियजयनिमित्तं, आकांक्षानिवृत्यर्थ, महापुरुषाचरणार्थ चेति । किमर्थं महाव्रतानां भेद इति चेन्न, छेदोपस्थापन-शुद्धिसंय. माश्रयणात् । नापि महाव्रतसमितीनामभेदः सचेष्टाचेष्टाचरणविशेषाश्रयणात् । नाप्यात्मदुःखार्थमेतत्, अन्यथार्थत्वाद भिषक्क्रियावदिति । अथ तपसां गुप्तीनां च कान्तर्भाव इति प्रश्ने उत्तरमाह-अनशनं नाम अशनत्यागः स च त्रिपकारः। मनसा च न भुजे न भोजयामि, भोजने व्यापृतस्य नानुमति करोमि भुंजे भुव वचसा न भणामीति चतुर्विधाहारस्याभिसन्धिपूर्वकं कायेनादानं न करोमि हम्तसंज्ञया प्रवर्तनं न करोमि नानुमतिसूचनं कायेन करोमि इत्येवं मनोवाक्कायक्रियाणां कर्मोपादानकारणानां त्यागोऽनशनं नाम । तया योगत्रयेण तृप्तिकारिण्या भुजिक्रियाया दर्पवाहिन्या