________________
मूलगुणाधिकारः। च न भवति अन्पया पात्री सर्वाहारपूर्णां त्यजेत् तत्र च दोषः स्यात् । इन्द्रियसंयममाणसंयमप्रतिपालनार्थ च स्थितिमोजनमुक्तमिति ॥
एकभक्तस्य स्वरूपं निरूपयन्नाहउदयत्थमणे काले णालीतियवजियम्हि मज्झम्हि । एकम्हि दुअतिए वा मुहुत्तकालेयभत्तं तु ॥३५॥ उदयास्तमनयोः कालयोः नालीत्रिकवर्जिते मध्ये। एकस्मिन् द्वयोः त्रिषु वा मुहूर्तकाले एकभक्तं तु ॥
उदयत्थमणे-उदयश्चास्तमनं च उदयास्तमने तयोः सवितुरुदयास्तमनयोः । काले-कालयोः, अथवा उदयास्तमनकालौ द्वितीयान्तौ दृष्टव्यौ । णालीतियवज्जियम्हि-नाड्या घटिकायास्त्रिकं नाडीत्रिकं तेन नाडीत्रिकेण वर्जितं नाडीत्रिकवनितं तस्मिन् घटिकात्रिकवर्जिते । मज्झम्हि-मध्ये । एक्कम्हि-एकस्मिन् । दुअ-द्वयोः। तिए वा-त्रिषु वा। मुहुत्तकाले मुहूर्तकाले । एयभत्तं तु-एकभक्तं तु । उदयकालं नाडीत्रिकप्रमाणं वर्जयित्वा । अस्तमनकाल च नाडीत्रिकप्रमाणं वर्जयित्वा शेषकालमध्ये एकस्मिन् मुहूर्ते द्वयोर्मुहू
योस्त्रिषु वा मुहूर्तेषु यदेतदशनं तदेकभक्तसंज्ञकं व्रतमिति पूर्वगाथासूत्रादशनमनुवर्तते तेन सम्बन्ध इति । अथवा नाडीत्रिकममाणे उदयास्तमनकाले च वर्जिते मध्यकाले त्रिषु