SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ मुलाचार स्यात् । नाभेरधो निर्गमनं योऽन्तरायः सोऽपि न स्यात् । अतो ज्ञायते त्रिमुहूर्नपध्ये एकत्र भोजनक्रिया प्रारभ्य केनवित् कारणान्तरेण हस्तौ प्रक्षाल्य मौनेनान्यत्र गच्छेत् भोजनाययदि पुनः सोऽन्तरायो भुजानस्यैकत्र भवतीति मन्यते जानूपरिव्यतिक्रपविशेषणमनर्थकं स्यात् । एवं विशेषणमुपादीयेत समपादयोर्मनागपि चलितयोरन्तरायः स्यात् नाभेरथो निर्गमनं दरत एव न सम्भवतीति अन्तरायपरिहारार्थमनर्थकं ग्रहणं स्यात् तथा पादेन किञ्चित् ग्रहणमित्येवमादीन्यन्तरायख्यापकानि सूत्राण्यनर्थकानि स्युः । तथाञ्जलिपुटं यदिन भिद्यते करेण किञ्चिद् ग्रहणमन्तरायस्य विशेषणमनर्थकं स्यात् । गृह्णातु वा मा वा अञ्जलिपुटभेदेन अन्तरायः स्यादित्येवमुच्यते । तथा जान्वधः परामर्शः सोऽप्यन्तरायस्य विशेषणं न स्यात् । एवमन्येऽपि अन्तरायाः न स्युरिति । न चैतेऽन्तरायाः सिद्धभक्तावकृतायां गृह्यन्ते सर्वदैव भोजनाभावः स्यात् । न चैवं, यस्मात्सिद्धभक्ति गायन्न करोति तावदुपविश्य पुनरुत्थाय भुनते । मांसादीन् दृष्ट्वा च रोदनादिश्रवणेन च उच्चारादींश्च कृत्वा भुङ्क्ते न च तत्र काकादिपिंडहरणं सम्भवति । अथ किमर्थ स्थितिभोजनमनुष्ठीयते चेन्नैष दोषः यावद्धस्तपादौ मम संबहतवाददाहारग्रहणं योग्य नान्यथेति ज्ञापनार्थ । मिथस्तस्य हस्ताभ्यां भोजनं उपविष्टः सन् भाजनेनान्यहस्तेन वा न भुजेऽहमिति प्रतिज्ञार्थ च, अन्यच्च स्वकरतलं शुद्धं भवति अन्तराये सति बहोर्विसर्जन
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy