________________
षडावश्यकाधिकारः ॥७॥ ४८७ यत् पालितं न भयं एतत् अनुपालनाशुद्धं ॥१४५॥
आतंकः सहसोत्थितो व्याधिः, उपसर्गो देवमनुष्यति येक्तपीडा, श्रम उपवासालाभमार्गादिकृतः परिश्रमः ज्वररोगादिकृतश्च, दुर्मिवत्तिवर्षाकालराज्यिभंगविड्नरचौराघुपद्रवमयेन शस्याधभावेन भिक्षागः प्राप्त्यभावा, कन्तारे महाटवीविंध्यारण्यादिकभयानकप्रदेशः, एतेषूपस्थितेष्वातंको पसर्गदुर्मिक्षरिकान्तारेषु यत्मतिपालित रक्षितं न भन मनागपि विपरिणामरूपं जातं तदेतत्पत्याख्यानमनुपालनविशुद्ध नाम ॥ १४५॥
परिणामविशुद्धपत्याख्यानस्य स्वरूपमाहरागण व दोसणवमणपरिणामेण दूसिदं तु। तं पुण पच्चक्खाणं भावविसुद्धं तु णादव्वं ॥ रागेण वा द्वेषेण वा मनःपरिणामेण न दूषितं यत्तु। तत् पुनः प्रत्याख्यानं भावविशुद्धं तु ज्ञातव्यम् ।
रागपरिणामेन द्वेषपरिणामेन च न दुषित न प्रतिहतं विपरिणामेन यत्पत्याख्यानं तत्पुनः प्रत्याख्यानं भावविशुद्धं तु ज्ञातव्यमिति । सम्यग्दर्शनादियुक्तस्य नि:कांक्षस्य वीतरामस्य समभावयुक्तस्याहिंसादिवतसहितशुद्धभावस्य प्रत्या. ख्यानं परिणामशुद्धं भवेदिति ॥ १४६ ॥