________________
१८६
मूलाचारेअणुभासदि गुरुवयणं
अक्खरपदवंजणं कमविसुद्धं ॥ घोसविसुद्धी सुद्धं
एदं अणुभासणासुद्धं ॥ १४४॥ अनुभाषते गुरुवचनं अक्षरपदव्यंजनं क्रमविशुद्धं । घोषविशुद्धया शुद्धमेतत् अनुभाषणाशुद्धं ॥१४॥ अणुभासदि अनुभाषते अनुवदति गुरुवचनं गुरुणा यथोचारिता प्रत्याख्यानाक्षरपद्धतिस्तथैव तामुच्चरतीति, अक्षरमेकस्वरयुक्तं व्यंजनं, इच्छामीत्यादिकं पदं सुबन्तं मिडंतं चाक्षरसमुदाय रूपं, व्यंजनमनक्षरवर्णरूपं खंडाक्षरानुस्वारविसर्जनीयादिकं क्रमविशुद्धं येनैव क्रमेण स्थितानि वर्णपदव्यंजनवाक्यादीनि ग्रंथार्थोभयशुद्धानि तेनैव पाठः, घोषविशुद्धया च शुद्धं गुर्वादिकवर्णविषयोचारणसहितं मुख्यमध्योच्चारणरहितं महाकल. कलेन विहीनं स्वरविशुद्धमिति, एवमेतत्प्रत्याख्यानमनुभाष मशुद्धं वेदितव्यमिति ॥ १४४ ॥
अनुपालनसहितप्रत्याख्यानस्य स्वरूपमाह;आदके उवसग्गे समे य दुभिक्खवुचि कंतारे। जं पालिदं ण भग्गं एवं अणुपालणासुद्धं ॥ आतके उपसर्गे श्रमे च दुर्भिक्षवृत्तौ कांतारे।