________________
षडावश्यकाधिकारः ॥ ७॥
४८३ सागारमणागारं परिमाणगदं अपरिसेसं ॥ अनागतमतिकांत कोटीसहितं निखडितं चैव । साकारमनाकारं परिमाणगतं अपरिशेषं ॥ १४ ॥
अणागदं अनागतं भविष्यत्कालविषयोपवासादिकरणं चतुर्दश्यादिषु यत्कर्त्तव्यं तत्त्रयोदश्यादिषु यत् क्रियते तदनागतं प्रत्याख्यानं, अदिकंतं अतिक्रान्तं अतीनकालविषयोपवासादिकरणं चतुर्दश्यादिषु यत्कर्तव्यमुपवासादिकं तत्पतिपदादिषु क्रियतेऽतिक्रान्तं प्रत्याख्यानं कोडीसहिद कोटिसहित संकल्पसमन्वितं शक्यपेक्षयोपवासादिक श्वस्तने दिने स्वाध्यायवेलायापतिक्रान्तायां यदि शक्तिभविष्यत्युपवासादिकं करिष्यामि नो चेन करिष्यामीत्येवं यत क्रियते प्रत्याख्यानं तरकोटिसहितमिति, णिक्खंडितं निखंडित अवश्यकतव्यं पाक्षिकादिपवासकरण निखंडितं प्रत्याख्यानं, साकारं समेदं सर्वतोभद्रकनकावल्याद्युपवासविधिनक्षत्रादिभेदेन करणं तत्साकारपत्याख्यानं, अनाकारं स्वेच्छयोपवासविधिनक्षत्रादिकमंतरेणोपवासादिकरणमनाकारपत्याख्यान, परिमागगतं प्रमाणसहितंषष्ठाष्टमदशमद्वादशपक्षाईपक्षमासादिकालादिपरिमाणेनोपवासादिकरणं परिमाणगतं प्रत्याख्यानं, अपरिशेषं यावज्जीवं चतुर्विधाऽऽहारादिपरित्यागोऽपरिशेष प्र. स्याख्यानम् ॥ १४०॥
तया
लादिमागसहितकरणमना