________________
षडावश्यकाधिकारः ॥ ७॥ ४८१ सागारमणागारं अणुपालेंतोदढधिदीओ॥१३७ आज्ञया ज्ञापकेनापि च उपयुक्तो मूलमध्यनिर्देशे। सागारमनागारं अनुपालयन् दृढधृतिकः॥१३७॥
प्राणाविय श्राज्ञया गुरूपदेशेनाईदाद्याज्ञया चारित्रश्रदया जाणणाविय ज्ञापकेन गुरुनिवेदनेनाथ वा परमार्थतो. ज्ञात्वा दोषस्वरूपं तमोहेतुं वाह्याभ्यन्तरे प्रविश्य ज्ञात्वाऽपि चोपयुक्तः षट्प्रकारसमन्वितः मूले श्रादौ ग्रहणकाले मध्ये मध्यकाले निर्देशे समाप्तौ सागारं गार्हस्थ्यं संयतासंयतयोग्यमथवा साकारं सविकल्प भेदसहितं अनागारं संयमसमेतोद्भव यतिप्रतिबद्धमथ वाऽनाकारं निर्विकल्पं सर्वथा परित्यागमनुपालयन् रक्षयन दृढधृतिकः सदृढधैर्यः मूलमध्यनिर्देशे साकारमनाकारं च प्रत्याख्यानमुपयुक्तः सन् प्राज्ञया सम्यविवेकेन वाऽनुपालयन् दृदधृतिको यो भवति स एष प्रत्याख्यायको नामेति संबन्धः उत्तरेणाथवा मूलमध्यनिर्देश श्राज्ञयोपयुक्तःसाकारमनाकारं च प्रत्याख्यान च गुरु ज्ञापयन् प्रतिपादयन अनुपालयश्च दृढधृतिकः प्रत्याख्यायको भवेदिति ।।
शेष प्रतिपादयत्राह,-- एसो पञ्चक्खाओ पञ्चक्खाणेत्ति वुच्चदे चाओ। पञ्चक्खिदबमुवहिं आहारो चेव बोधव्वो॥ १३८
___३१