________________
मूलाचारे अंगुलिनखावलेखनीकालभिः पाषाणत्वचादिभिः । दंतमलाशोधनं संयमगुप्तिरदंतमनम् ॥ ३३ ॥ ____ अंगुलि-अंगुलिः हस्ताग्रावयवः णह-नखः कररुहः । अवलेहणि--अवलिख्यते मलं निराक्रियतेऽनया सा अवलेखनी दन्तकाष्ठं कलिहि-कलिस्तृणविशेषः, अत्र बहुवचनं दृष्टव्यं प्राकृतलक्षणबलात् । अंगुलिनखावलेखनीकल यस्तैः । पासाणं-पाषाणं । छल्लि त्वक् वल्कलावयवः । पाषाणं च त्वक् च पाषाणत्वचं तदादिर्येषां ते पाषाणत्वचादयस्तैः पाषाणत्वचादिभिश्च । श्रादिशब्देन खरखण्ड तन्दुलवर्तिकादयो गृह्यन्ते । संजमगुत्ती-संयमगुप्तिः। दंतमलासोहणयं-दन्तानां मलं तस्याशोधनमनिराकरणं दन्तमलाशोधनं । संजमगुत्ती संयमस्य गुप्तिः संयमगुप्तिः संयमरक्षा इन्द्रियसंयमरक्षणनिमित्तम् । समुदायार्थ:-अंगुलिनखाक्लेखनीकलिभिः पाषाणत्वचादिभिश्च यदेतदन्तमलाशो धनं संयमगुप्तिनिमित्तं तददन्तमनव्रतं भवतीत्यर्थः । किम थे वीतरागख्यापनार्थ सर्वज्ञाज्ञानुपालननिमित्तं चेति ।।
स्थितिभोजनस्य स्वरूपं निरूपयवाहअंजलिपुडण ठिचा कुड्डाइविवजणेण समपायं। पडिसुद्धे भूमितिए असणं ठिदिभोयणं णाम ३४ अंजलिपुटेन स्थित्वा कुझ्यादिविवर्जनेन समपादम्