SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ मूलगुणाधिकारः। ४१ रितस्तस्मिनल्पासंस्तरिते अथवा अल्पवति संस्तरिते येन बहुसंयमविघातो न भवति तस्मिन् तृणमये काष्ठमये शिलामये भूमिप्रदेशे च संस्तरे गृहस्थयोग्यप्रच्छादनविरहिते आत्मना वा संस्तरिते नान्येन । अथवा आत्मानं मिमीत इ. ति आत्ममं प्रात्मप्रमाणं संस्तरितं चारित्रयोग्यं वृणादिकं यस्मिन् स आत्ममसंस्तरितप्रदेशस्तस्मिन् । प्रच्छन्ने गुप्तकपदेशे स्त्रीपशुपंडकविवर्जिते असंयतजनप्रचारविवर्जिते । दण्डंदण्ड इव शयनं दण्ड इत्युच्यते धणु-धनुरिव शयनं धनुरित्युच्यते । शय्याशब्दः प्रत्येकमभिसम्बध्यते । दण्डेन शय्या धनुषा शय्या । अधोमुखेनोत्तानेन शय्या न कर्तव्या दोषदर्शनात् । खिदिसयणं-क्षितौ शयनं क्षितिशयनं । विवजितपल्यंकादिकं । एयपासेण-एकपाद्येन शरीरैकदेशेन । प्रासुकभूमिप्रदेशे चरित्राविरोधेनाल्पसंस्तरितेऽसंस्तरिते श्रात्मपमाणेनात्मनैव वा संस्तरिते प्रच्छन्ने दण्डेन धनुषा एकपार्बेन मुनेर्या शय्या शयनं तत् क्षितिशयनव्रतमित्यर्थः । किमर्थमेतदिति चेत् इन्द्रियसुखपरिहारार्थ तपोभावनार्थं शरीरादिनिस्पृहत्वाद्यर्थ चेति ॥ अदन्तमनव्रतस्य स्वरूपं निरूपयन्नाहअंगुलिणहावलेहणिकलीहिं पासाणछल्लियादीहि दंतमलासोहणयं संजमगुची अदंतमणं ॥३३॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy