SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मूलाचारे संयमस्य द्विकं द्वयं संयमद्विकं तस्य पालक संयमद्विकपालक इन्द्रियसंयममाणसंयमरक्षकम् । मुणिणो-मुनेः चारित्राभिमानिनो मुनेः । स्नानादिवर्णनेन विलिप्तजल्लमलस्वेदसर्वांगं महाव्रतपूतं यत्तदस्नानव्रतं घोरगुणं संयमद्वयपालकं भवतीत्यर्थः । नात्राशुचित्वं स्यात् स्नानादिवर्जनेन मुनेः व्रतः शुचित्वं यतः । यदि पुनव्रतरहिता जलावगाहनादिना शुचयः स्युस्तदा मत्स्यपकरदुश्चरित्रासंयताः सर्वेऽपि शुचयो भवेयुः । न चैवं, तस्मात् व्रतनियमसंयमैर्यः शुचिः स शुचिरेव । जलादिकं तु बहु कश्मलं नानासूक्ष्मजन्तुपकीणं स. वसावद्यमूलं न तत्संयतैर्यत्र तत्र प्राप्तकालमपि सेवनीयमिति ।। क्षितिशयन्व्रतस्य स्वरूपं प्रपंचयन्नाहफासुयभूमिपएसे अप्पमसंथारिदम्हि पच्छण्णे। दंडंधणुव्व सेजं खिादसयणं एयपासेण ॥३२॥ प्रासुकभूमिप्रदेशे अल्पांसंस्तरिते प्रच्छन्ने । दंडो धनुरिव शय्या क्षितिशयनं एकपाश्रूण ॥३२॥ फासुयभूमिपएस-प्रगता असवः प्राणा यस्मिन्नसौ प्रासुको जीववधादिहेतुरहितः भूमेः प्रदेशो भूमिप्रदेशःप्रासुकश्चासौ भूमिप्रदेशश्च प्रासुकभूमिप्रदेशस्तस्मिन् जीवहिंसामर्दनकलहसंक्लेशादिविमुक्तभूमिप्रदेशे । अप्पमसंयारिदम्हि-अल्पमपि स्तोकमपि असंस्तरितं अप्रतिप्तं यस्मिन् सोऽसासंस्त
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy