________________
मूलगुणाधिकारः ।
अस्नानव्रतस्य स्वरूपं प्रतिपादयन्नाह
हाणादिवज्जणेण य विलित्तजलमलसेदसव्वंगं । अण्हाणं घोरगुणं संजमदुगपालयं मुणिणो ॥ स्नानादिवर्जनेन च विलिप्तजल्लुमलस्वदसर्वांगम् । अस्नानं घारगुणं संयमहिकपालकं मुनेः ॥ ३१ ॥
रहाणादिवज्जगुण य-स्नानं जलावगाहन प्रादियेषां ते स्नानादयः स्नानोद्वर्तनाज्ञ्जनजलसेक ताम्बूललेपनादयस्तेषां वर्जनं परित्यागः स्नानादिवर्जनं तेन स्नानादिवर्जनेन जलप्रक्षालनसेचनादिक्रियाकृतांगोपांगसुखपरित्यागेन । विलितजलमल सेद सब्बंगं - जलं सर्वागमच्छादकं मलं अंकदेशप्रच्छादकं स्वेदः प्रस्वेदो रोमकूपोद्गतजलं, जलं च मलं च स्वेदश्च जलमल स्वेदास्तैः विलिप्तं सर्वांगं विलिप्तजलमल स्वेदसर्वागं । विलिप्तशब्दस्य पूर्वनिपातः । अथवा जलमलाभ्यां स्वदो यस्मिन् जललमलस्वेदं सर्वं च तदंगं च सर्वागं सर्वशरीरं विलिप्तं च तज्जललमलस्वेदं च सर्वागं च तद्विलिसजललमल स्वेद सर्वागम् । अथवा विलिप्ताः सुपचिता जल्लमलस्वेदा यस्मिन् सर्वांगे तद्विलिप्तजल्लमलस्वेदं तच्च तत् सर्वागं च । अग्रहां अस्नानं जलावगाहनाद्यभावः । घोरगुणोमहागुणः प्रकृष्टवतं, अथवा घोराः प्रकृष्टा गुणा यस्मिन् तद् घोरपणम् । संजमदुगपालयं - संयमः कपावेन्द्रियनिग्रहः
३६