________________
षडावश्यकाधिकारः ॥ ७ ॥
४६१
तथा
दिट्ठमदिट्ठे चाविय संगस्स करमायणं । आलद्धमणालद्धं च हीणमुत्तरचूलियं ॥ १०९ ॥
दृष्टः अदृष्टश्चापि च संघस्य करमोचनं । आलब्धः अनालब्धश्च हीनमुत्तरचूलिका ॥ १०९॥
दिहं दृष्टं आचार्यादिभिर्दृष्टः सन् सम्यग्विधानेन बंदनादिकं करोत्यन्यथा भवेच्छयाऽश्वादिगवलोकनं कुर्वन बन्दनादिकं यदि विदधाति तदा तस्य दृष्टो दोष:, प्रदिहं अदृष्टं श्राचार्यादीनां दर्शनं पृथक् त्यक्त्वा भूपदेश शरीरं चापतिलेख्यातद्गतमनाः पृष्ठदेशतो वा भूत्वा यो बन्दनादिकं करोति तस्याष्टदोषः अपि च संघस्स करमोयणं संघस्य करमोचनं संघस्य मायाकरो दृष्टिर्दातव्योऽन्यथा न ममोपरि संघः शोभनः स्यादिति ज्ञात्वा यो बन्दनादिकं करोति तस्य संघकरमोचनदोष: । आलद्धमालद्धं उपकरणादिकं लब्ध्वा यो बंदनां करोति तस्य लब्धदोषः प्रणालद्धं - अनालब्ध उपकरणादिकं लस्येऽहमिति बुद्धया यः करोति वन्दनादिकं तस्यानाल
दोषः, ही हीनं ग्रंथार्थ कालप्रमाणरहितां बन्दनां यः क रोति तस्य हीनदोषः, उत्तरचूलियं उत्तरचूलिकां वन्दनां स्वोकेन कालेन निर्वर्त्य बन्दनायाश्चूलिकाभूतस्यालोचनादिकस्य महता कालेन निर्वर्तक कृत्वा यो वन्दनां कि