SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥७॥ मत्स्योद्वतॊ मनोदुष्टो वेदिकाबद्ध एव च । भयेन च विभ्यत्त्वं ऋद्धिगौरवं गौरवं ॥ १०७॥ मत्स्योद्वतः पार्श्वद्वयेन वन्दनाकरणमथवा मत्स्यस्य इव कटिभागेनोद्वर्त्त कृत्वा यो बंदनां विदधाति तस्य मत्स्योदर्तदोषः, मनसाचार्यादीनां दुष्टो भूवा यो बंदनां करोति तस्य मनोदुष्टदोषः संक्लेशयुक्तेन मनसा यद्वा बंदनाकरणं, वेदिया. बदमेव य वेदिकाबद्ध एव च वेदिकाकारेण हस्ताभ्यां बंधो हस्तपंजरेण वामदक्षिणस्तनप्रदेशं प्रपीडय जानुद्वयं वा प्रबद्ध्य बंदनाकरणं वेदिकाबद्धदोषः, भयसा चेव भयेन चैव मरणा. दिभीतस्य भयसंत्रस्तस्य यद्वंदनाकारणं भयदोषः भयतो वि. भ्यतो गुर्वादिभ्यो विभ्यतो भयं प्राप्नुवतः परमार्थात्परस्य बालस्वरूपस्य बंदनाभिधानं विभ्यद्दोषः, इडिगारव ऋद्धिगौरवं बंदनामकुर्वतो महापरिकरश्चातुर्वर्यश्रमणसंघो भक्तो भवत्येवपमिप्रायेण गो बंदनां विदधाति तस्य ऋद्धिगौरवदोषः, गा. वं गौरवं आत्मनो माहात्म्यासनादिभिराविकृत्य रससुखहेतोर्वा यो बंदनां करोति तस्य गौरववंदनादोषः ॥ १०७॥ तथातेणिदंपडिणिदं चावि पदुढे ताजिदंतधा। सहं च हीलिदंचावि तह तिवलिदकुंचिदं १०८ स्तनितंप्रतिनतिं चापि प्रदुष्टस्तर्जितं तथा।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy