________________
षडोवश्यकाधिकारः ॥७॥
४५७
मयरहियं दुविहठाण पुणरुत्वं। विणएण कमविसुद्ध
किदियम्मं होदिकायबं ॥१०५॥ त्रिविधं त्रिकरणशुद्धं मदरहितं द्विविधस्थानं पुनरुक्तं विनयेन क्रमाविशुद्ध कृतिकर्म भवति कर्तव्यं ॥१.५||
... त्रिविधं ग्रंथार्थोभयभेदेन त्रिसकारं, अथवाऽवनतिद्वयमेकः प्रकार: द्वादशावतः द्वितीयः प्रकारश्चतुःशिरस्तृतीयं वि. धानमेवं त्रिविधं, अथ वा कृतकारितानुमतिभेदेन त्रिविधं, अथवा प्रतिक्रमणस्वाध्यायबन्दनाभेदेन विविध, अथवा पं. चनमस्कारध्यानचतुर्विशतिस्तवमेदेन त्रिविधमिति । त्रिकर
शुद्ध मनोवचनकायाशुभपरिणामविमुक्तं, अय वाऽवनतिद्वयद्वादशावर्चचतुःशिरःक्रियामिः शुद्धं । मदरहितं जात्यादिमदहीनं । द्विविधस्थान द्वे पंर्यककायोत्सगा स्थाने यस्य तत् द्विविध स्यानं । पूनरुक्तं क्रियां क्रियां प्रति तदेव क्रियत इति पुनरुक्तं, विनयेन विनययुक्त्या क्रमविशुद्ध क्रममननिलंध्यागमानुसारेण कृतिकर्म भवति कर्तव्यं । न पुनरुक्तो दोनो द्रव्यार्थिकपर्यायार्थिशिष्यसंग्रहणादिति ॥ १०५॥
. कति दोषविप्रमुक्तं कृतिकर्म भवति कर्तव्यमिति यत्पृष्टं तदर्थमाह