________________
षडावश्यकाधिकारः ॥७॥ चार्यभक्तिक्रियाकरणे द्वितीयं कियाकर्म तथा स्वाध्यायोपसंहारे श्रुतभक्तिकरणे कायोत्सर्गस्तृतीयं क्रियाकमैवं जातिमपेक्ष्य त्रीणि क्रियाकर्माणि भवंति स्वाध्याये शेषाणां चंदनादिक्रियाकर्मणामत्रैवान्तर्भावो द्रष्टव्यः । प्रधानपदोच्चारणं कृतं यतः पूर्वाह्न दिवस इति एवमपराह्ने रात्रावपि द्रष्टव्यं भेदाभावात् अथ वा पश्चिमरात्रौ प्रतिक्रमणे किया. कर्माणि चत्वारि स्वाध्याये त्रीणि बंदनायां द्वे, सवितयुदिते स्वाध्याये त्रीणि मध्याह्नवंदनायां वे एवं पूर्वाह्नकियाकर्माणि चतुर्दश भवन्ति तथाऽपराह्नवेलायां स्वाध्याये त्रीणि क्रियाकर्माणि प्रतिक्रमणे चत्वारि बंदनायां द्वे योगभक्तिग्रहणो. पसंहारकालयोःद्वे रात्रौप्रथमस्वाध्याये त्राणि । एवमपराह्नक्रि. याकर्माणि चतुर्दश भवंति प्रतिक्रमणस्वाध्यायकालयोरुपलक्षणत्वादिति, अन्यान्यपि क्रियाकाण्यत्रैवान्तर्भवन्ति ना. व्यापकत्वमिति संबन्धः । पूर्वाह्नसमीपकालः पूर्वाह्न इत्युच्यतेऽपराह्नसमीपकालोऽपराह्न इत्युच्यते तस्मान दोष इति॥१०३॥ ___ कत्यवनतिकरणमित्यादि यत्पृष्टं तदर्थपाहदोणदंतु जधाजादंबारसावत्वमेव य। चदुस्सिरं तिसुद्धं च किदियम्मं पउंजदे॥१०४॥ व्यवनतिस्तु यथाजातं द्वादशावर्तमेव च । चतुःशिरः त्रिशुद्धं च कृतिकर्म प्रयुजते ॥१०४॥