________________
४५४
मूलाचगरे
दानी कतिवारं कृतिकर्म कर्तव्यमिति यत्सूत्रं स्थापितं तव्याख्यानायाह
चचारि पडिक्कमणे
किदियम्मा तिण्णि होति सज्झाए। पुवण्हे अवरण्हे
किदियम्मा चोदसा होति ॥१०३॥ चत्वारि प्रतिक्रमणे कृतिकर्माणि त्रीणि स्वाध्याये । पूर्वाह्ने अपरहं कृतिकर्माणि चतुर्दश भवंति १०३
सामायिकस्तवपूर्वककायोत्सर्गश्चतुर्विंशतितीर्थकरस्तवपयन्तः कृतिकर्मेन्युच्यते । प्रतिक्रमणकाले चत्वारि क्रियाक. मर्माणि स्वाध्यायकाले च त्रीणि क्रियाकर्माणि भवत्येवं पूर्वा. हे क्रियाकर्माणि सप्त तशाऽपराह्न च क्रियाकर्माणि सप्तवं पू. वह्नेिऽपराह्ने च क्रियाकर्माण चतुर्दश भवतीति । कथं प्रतिक्रमणे चत्वारि क्रियाकर्मा ण, आलोचनाभक्तिकरणे कायोसर्ग एकं क्रियाकर्म तथा प्रतिक्रमणभक्तिकरणे कायोत्सर्गः द्वितीयं क्रियाकर्म तथा वीरभक्तिकरणे कायोत्सर्गस्तृतीयं कियाकर्म तथा चतुर्विंशतितीर्थकरभक्तिकरणे शांतिहेतोः कायोत्सर्गश्चतुर्थं कियाकर्म । कथं च स्वाध्याये त्रीणि क्रियाकर्माणि, श्रुतभक्तिकरणे कायोत्सर्ग एक क्रियाकर्म तथाऽऽ.