________________
४५०
मूलाचारपार्श्वस्थश्च कुशीलः संसक्तोऽपसंज्ञो मृगचरित्रश्च । दर्शनज्ञानचारित्रे अनियुक्ता मंदसंवेगाः ॥९६ ॥ 'संयतगुणेभ्यः पावें अभ्यासे तिष्ठतीति पार्श्वस्थः वसतिकादिपतिबद्धो मोहबहुलोरात्रिंदिवमुपकरणानां कारकोऽसंयतजनसेवी संयतजनेभ्यो दूरीभूतः, कुत्सितं शीलं पाचरणं स्वभावो वा यस्यासौ कुशीलः क्रोधादिकलुषितात्मा व्रतगुणशीलैश्च परिहीनः संघस्यायशःकरणकुशलः, सम्यगसंयतगुणेष्वाशक्तः संशक्तः आहारादिगृद्धया वैद्यमंत्रज्योतिपादिकुशलत्वेन प्रतिबद्धो राजादिसेवातत्परः, ओसरणोऽपग'तसंज्ञोऽपगता विनष्टा संज्ञा सम्यग्ज्ञानादिकं यस्यासौ अपगत. संज्ञश्चारित्राद्याहीनो जिनवचनमजानञ्चारित्रादिनभ्रष्टः करणालस: सांसारिकसुखमानसः, मृगस्येव पशोरिव चरित्रमाचरणं यस्यासौ मृगचरित्रः परित्यक्ताचार्योपदेशः स्वच्छन्द. गतिरेकाकी जिनसूत्रदूषणस्तपःसूत्रायविनीतो धृतिरहितश्चे'त्येते पंच पाइदस्था दर्शनज्ञानचारित्रेषु अनियुक्तःश्चारित्राद्यनुष्ठानपरा मंदसंवेगास्तीर्थवर्मायकृतहर्षाः सर्वदा न वंदनीया इते ॥ ९६ ॥
- पुनरपि स्पष्टपबन्दनायाः कारणमाहदंसणणाणचरिचेतवविणए णिचकाल पासत्था । एदे अवंदणिजा छिहप्पेही गुणधराणं ॥९७॥